________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातो मात्राशितीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः॥१॥ मात्राशी स्यात् । आहारमात्रा पुनरग्निबलापेक्षिणी । गङ्गाधरः-अथेदानी स्वस्थातुरसाधारणतया भेषजचतुष्कमभिधाय स्वस्थातुरयोः प्रत्येकप्रतिनियतहेतुलिङ्गोषयज्ञानमूत्राणां वक्तव्यत्वे स्वस्थपरायणहेतुलिङ्गौषधज्ञानमूत्राणामातुरपरायणहेतुलिङ्गौषधज्ञानमूत्रापेक्षयात्यल्पत्वेन सूचीकटाहन्यायेन स्वस्थविधेरातुर्येऽप्यप्रतिषिद्धत्वेनातुरपरायणहेतुलिङ्गौषधज्ञानमूत्रोक्तः पूर्व स्वस्थपरायणहेतुलिङ्गौषधज्ञानसूत्राणि वक्तमारभते। तथाप्यग्निसाम्यस्य स्वास्थ्यं प्रति साक्षात् प्रधानकारणखादग्निरक्षणकारणं मात्रावदशनमुपदेष्टुं मात्राशितीयोऽध्यायोऽभिधीयते-अथात इत्यादि। अथात इति प्राग्वद व्याख्येयम् । मात्राशितीयमिति-अत्राध्यायादी मात्राशीतिपदं यद्यपि श्रयते तेनाध्यायस्य संज्ञाप्रणयन कष्टोच्चारणश्रवणभयादत्र तदर्थपरमात्राशितपदमधिकृत्य कृतोऽध्यायोऽयमिति । सर्वमन्यत् प्राग्वद व्याखेरयम् ॥१॥
गङ्गाधरः-मात्राशी स्यादिति ।--मात्रां मात्रावदशनञ्चाशितुमर्थात द्रव्याणि शील यस्य स मात्राशी। स्यादिति कर्तव्यनोपदेशो विधिः। अत्रायमशधातुः
चक्रपाणिः-द्वितीयमिह शास्त्रप्रयोजनं यदातुरव्याधिहरणं स्वस्थस्वास्थ्यरक्षणञ्च, यदाह"स्वस्थातुरपरायणम्” इति, तेनोत्पन्नव्याधिप्रतिकारद्वाराऽऽतुररक्षणं भेषजचतुष्कमभिधाय स्वस्थचतुष्कोऽभिधातव्यः, तत्रापि स्वास्थ्यपरिपालनहेतुषु मावावदन्न प्रधानं, यदाह “प्राणिनां पुनर्मूलमाहारो बलवर्गोजसाञ्च” तच्चेह “मात्रावदन्न विधीयते” इत्यादी मात्राशितीय एवाभिधीयते ; मात्राशितमधिकृत्य कृतोऽध्यायो मात्राशितीयः। यद्यपि “मात्राशी" इति पदमनुश्रूयते तथापि 'मात्राशितीयः” इति सम्प्रणयने कष्टोच्चारणभयादर्थपरपर्यायशब्देनेयं संज्ञा कृता, यथा-"न वेगान् धारणीयाः” इत्यादिका संज्ञा ॥१॥
चक्रपाणिः-मात्रां मात्रावदन्नमशितु भोक्त, शीलं यस्यास्यो मालाशी, यदि वा मात्रया अशितु शीलं यस्य स तथोक्तः, तह मात्राऽनपायि परिमाणम्। अशिरयमिहाविशेषण खाद्यप्राश्यलेह्यपेयानामभ्यवहारे वर्त्तते, तेन “मात्राशी स्याद्" इत्युक्तम् । खाद्यलेह्यपेयानां मात्राभ्यवहरणं नोक्तमिति यच्चोच्यते, तन्निरस्तं स्यात् । दृष्टश्वायमशिः खाद्याद्यभ्यवहारे यथा--दशमूल
For Private and Personal Use Only