________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः सूत्रस्थानम् ।
२७१ तेषां कर्मसु वाहोषु योगमाभ्यन्तरेषु च । संयोगञ्च प्रयोगश्च यो वेद स भिषग्वरः ॥ १४ ॥
इति भेषजचतुष्कः । इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत श्लोकस्थाने षडविरेचन
शताश्रितीयो नाम चतुर्थोऽध्यायः ॥ ४ ॥ मन्दानामल्पबुद्धीनां व्यवहाराय बुधानां बुद्धिमतां बुद्धिवृद्धयेऽनुक्तार्थज्ञानायायं पञ्चाशन्महाकपायावधारणहेतुवादसहित उदाहृतः। हि शब्द एवार्थे ।
पञ्चाशन्महाकपायोपदेशप्रयोजनमाह तेषामित्यादि। तेषां पञ्चाशतो महाकषायाणां यथायोग्यं स्वस्थपुरुपे वातुरपुरुष वा वाह्य षु कर्मसु प्रलेपावगाहादिपु, आभ्यन्तरेषु वमनादिषु कर्मसु च विषयेषु कर्तव्येषु संयोगं परस्परमुचितानां मेलकमयौगिकानां पृथककरणं प्रयोगश्च कालदेशप्रकृत्यादापेक्षया योजनाश्च यो वेद वेत्ति स भिषग्वर इति ॥ १४ ॥ ___ अध्यायं समापयति-अग्निवेशेत्यादि। प्राग्वत् सर्व व्याखो यम् । इति भेषजचतुष्क इति स्वस्थातुरपरायणभेषजोपदेशैश्चतुर्भिरध्यायनिष्पन्न एकः परिच्छेदः समाप्तः।
इति श्रीगङ्गाधररायकविरत्नविरचिते चरकजल्पकल्पतरौ मूत्रस्थानजल्पे
प्रथमस्कन्धे चतुर्थाध्यायजल्पाखना चतुर्थी शाखा ॥४॥ दुर्घटमेव । वाह्य पु प्रलेपादिपु, आभ्यन्तरेषु वमनादिषु, संयोगं द्रव्याणामुचितं मेलन, प्रयोग कालप्रकृत्यपेक्षया योजनाम् ॥ १४ ॥
इति भेषजचतुष्कः। इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां पड़ विरेचनशताश्रितोयो नाम चतुर्थोऽध्यायः ॥ ४ ॥
For Private and Personal Use Only