________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
चरक-संहिता। पड् विरेचनशताश्रितीयः वाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति (४)।
___ अभृताभयाधात्री-मुक्ताश्वेता-जीवन्त्यतिरसामण्डकपर्णीस्थिरापुनर्नवा इति दशेमानि वयःस्थापनानि भवन्ति (५)।
इति पञ्चकः कषायवर्गः । इति पञ्च कषायशतान्यभिसमस्य पञ्चाशन्महाकषायाः महताञ्च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति । लक्ष्मणा वा, शिवा हरीतकी, अरिष्टा कटुरोहिणी, वाठ्यपुष्पी बला, विष्वक्सेनकान्ता प्रियङ्गः। प्रजास्थापनानि प्रजां गभहेतु शोणितं दुष्ट चेत्तदा तददुष्टिहेतुमुपहत्य प्रकृतौ स्थापयन्ति प्रभावात् (४) । अमृतेत्यादिना वयःस्थापनः पञ्चाशो दशकः कपायवर्गः। तत्र मुक्ता रास्ना, मुक्तरसेत्यस्य खेकदेशो मुक्ता । श्वेता श्वेताऽपराजिता, श्वेतास्थाने श्रेयसीति केचित् पठन्ति स रास्त्राविशेषः । अतिरसा शतावरी। वयःस्थापनानि वयःप्राधान्याद. यौवनं स्थापयन्ति प्रभावात् (५)। इति पञ्चकः शोणितस्थापनादिभिः पञ्चभिः कषायवर्गः स्थापनशब्दान्तवेन तुल्यश्रवणात् सुश्राव्यतया पुष्कलाभिधानन निष्पादित एकः कषायवर्ग इत्यर्थः ।
पञ्चाशन्महाकषायाणामुद्देशसमाप्त इति पञ्चाशन्महाकपाया इत्येव ख्यातम् । यर्थत्यन्तं यत् पूवेसुक्त तदुपसंहरति-इति पञ्च कषायशतानि इत्यादि। महताश्च करायाणां जीवनीयादिसंज्ञकानां पश्चाशतो लक्षणोदाहरणार्थम् उद्दशसूत्रेऽन्यत्र लक्षणानि जीवनीयो टहणीय इत्यादीनि पञ्चाशत् कृतानि यानि तेषां लक्षणानामुदाहरणार्थं चकारात् पञ्च कषायशतानीति यदुद्दे शमूत्रं कृतं तस्यापि सूत्रस्योदाहरणार्थम् । किंवा जीवकटुरोहिणी, विष्वक्सेनकान्ता प्रियङ्ग : (४)। मुक्ता रास्ना ; श्वेतास्थाने श्रेयसीति केचित्, सा रास्नाभेदः (५)।
सम्प्रत्येतान्येव जीवकादीन्युक्तानि प्रत्येकद्रव्यगणनया च पञ्च कषायशतानि स्युः, दशकगणनया च पञ्चाशत् महाकषायाः शृङ्गग्राहिकयोक्ता भवन्तोति दर्शयन्नुपसंहरतिइतीत्यादि। अभिसमस्येति दशकसंख्ययैकवर्गीकृत्य, लक्षणस्योदाहरणं लक्षणोदाहरणं पूर्व जीवनीयादिसंज्ञालक्षणमभिप्रयोक्तम् । लक्षणोदाहरणार्थमिति सम्प्रति जीवकर्पभकादीनि लक्षणं
For Private and Personal Use Only