________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४र्थ अध्यायः ।
२६१
सूत्रस्थानम् | पाटलाग्निमन्थविल्वश्योरणाककाश्मर्थ्य कण्टकारिका बृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि शोथहराणि
भवन्ति (३) ।
शारिवा - शर्करापाठामञ्जिष्ठाद्रा नापीलुपरूषकाभयामलकविभीतकानीति दशेमानि ज्वरहराणि भवन्ति ( ४ ) । द्राक्षा-खर्जूर- पियाल - बदर दाड़िमफल्गुप रूप के क्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति (५) ।
इति पञ्चकः कषायत्रगः ।
Acharya Shri Kailassagarsuri Gyanmandir
लाजाचन्दनकाश्मर्थ्यफलमधुकशकरानीलोत्पलोशीरशाांरवागुडूचीहीराणीति दशेमानि दाहप्रशमनानि भवन्ति (१) ।
पर्णासः तामलकी भूम्यामलकी, चण्डा चोरपुष्पी । श्वासहराणि प्रभावात् ( २ ) | पाटलेत्यादिना अष्टाशो दशकः श्वयथहर कपायवर्गः । दशमूलनामानि । श्वयथुहराणि प्रभावात् ( ३ ) | शारिवेत्यादिना एकोनचत्वारिंशो दशको ज्वरहरः कषायवर्गः । तत्र शर्करा सिता । ज्वरहराणि प्रभावात् ( ४ ) | द्राक्षेत्यादिना चत्वारिंशो दशकः श्रमहरः कषायवर्गः । तत्र फल्गुः काष्ठोडुम्बरकः । श्रमहराणि प्रभावात् (५) । इति कासहरादिभिः पञ्चभिः कषायवर्गे हैरशब्दान्तखेन तुल्यश्रवणात् सुश्राव्यतया पुष्कलाभिधानात् निष्पादित एकः कषायवर्ग इत्यर्थः ।
तत्र
अथोद्द शक्रमप्राप्तदाहप्रशमनादिपञ्चककपायवर्गमाह - लाजेत्यादि । लाजेत्यादिना एकचत्वारिंशो दशको दाहमशमनः कषायवर्गः । तत्र चन्दन श्वेतचन्दन रक्तावजयत्वादस्य दाहप्रशमनत्वम् । अत्र गुड़ चीस्थाने पद्मक जतूकर्णः पठति । यद्यपि “अर्कागुरुगुडूचीनां तिक्तानां चौष्ण्यमिष्यते” इति वचनादुष्णत्वेन दाहप्रशमनत्वं न लभ्यते, तथापि तिक्तरसप्रभावात् तल्लभ्यत
लाद जतूकर्णपाठात् गुड़ चीस्थाने पद्मकः, यदि वा “अर्कागुरुगुडूचीनां
तिक्तानाञ्चौष्ण्यमिष्यते” इति वचनात् यद्यप्युष्णा गुडूची, तथापि तस्या दाहप्रशमकत्वं प्रभावाद
For Private and Personal Use Only