________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातः षड़विरेचनशताश्रितीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः ॥ १॥ इह खलु षडाविरेचनशतानि भवन्ति । षड़ विरेचनाश्रयाः । पञ्च कषायशतानि। पञ्च कमाययोनयः। पञ्चविधं कषायकल्पनम्। पञ्चाशन्महाकषाया इति संग्रहः ॥ २ ॥
गङ्गाधरः-अथ स्वस्थातुरोभयपरायणभेषजतया संशोधनार्थपञ्चकर्माद्रव्याणुक्ता तथातुरपरायणनानाव्याधिहरयवाग्वादीनुक्ता तेषामन्येपाञ्च सर्वेषां भेषजानां कल्पनार्थं पड़ विरेचनशताश्रितीयमारभते-अथात इत्यादि। अध्यायारम्भे प्रथम पडिरेचनशतानीति पदं, तत्र शतशब्दस्य शतखसंख्यावत्परखेन तदर्थकं पडिरेचनशताश्रितमिति पदं भवति, तदधिकृत्य कृतोऽध्याय इति षड़ विरेचनशताश्रितीयस्तं तथा। शतं शतखसंख्यामाश्रयतीति कत्तरि क्तः न तु भावे, नानाद्रव्यघटितौषधद्रव्यवाचकखात् । अध्यायमित्यादिकं सव्व प्राग्वद व्याख्येयम् ॥१॥
गङ्गाधरः- इहेत्यादि। तन्त्रान्तरे वहूनि द्रव्याणि सन्ति विरेचनयोगोषधानि तद्वारणायाह---इहेति। इह तन्त्रे खलु पड् विरेचनशतानि, न चाधिकानि।
चक्रपाणिः-- अपामार्गतण्डुलीयेऽन्तःपरिमार्जनमुक्तम्, आरग्वधीये च वहिःपरिमार्जनमुक्तम् । सम्प्रति पूर्वाध्यायद्वयाप्रतिपादितं भेपजचतुष्कमवश्यं वक्तव्यमवशिष्टमुभयपरिमाज्जनभेषजमभिधातुं पड़विरेचनशताश्रितीयोऽभिधीयते। आश्रीयते इत्याश्रितीयमाश्रय इत्यर्थः । पटसंख्यावच्छिन्नानि विरेचनशतान्याश्रितानि चाधिकृत्य कृतोऽध्यायः पड़ विरेचनशताश्रितीयः । एतेन यदुक्त-धड़ विरेचनशतानि षड़ विरेचनाश्रयाः, एतद द्वयमधिकृत्य संज्ञेयं प्रणीतेति मन्तव्यम् ॥ ५॥
चक्रपाणिः यद्यपि चाध्यायादाविह खल्विति पदं श्रूयते, तथापि गुणप्रधानत्वात् नाध्यायसंज्ञाप्रणयने निवेशितम् । इहेत्यग्निवेशतन्त्र ऽनतिसंक्षेपविस्तरे। एतेन वक्ष्यमाणविरेचनषट्शतानां तथा पञ्चाशन्महाकषायाणां तथा पञ्चकषायशतानां विस्तरकल्पनायामधिकत्वमपि भवतीति सूच्यते।
For Private and Personal Use Only