________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
[ आरग्वधोयः
चरक-संहिता। शैवालपद्मोत्पल वेत्रतुङ्ग प्रपौण्डरीकाण्यमृणाललोधम्। प्रियङ्ग कालेयकचन्दनानि निर्वापणः स्यात् सघृतःप्रदेहः॥१८॥ सितालता येतसपद्मकानि यष्ट्यालमैन्द्री नलिनानि दूर्वा । यवासमूलं कुशकाशयोश्च निर्वापरणः स्याजलमेरका च ॥१६॥ शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारू रास्ना । शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः॥२०॥ शिरीषलामजकहेमलोधस्त्वगदोषसंस्वेदहरः प्रघर्षः । पत्रास्बुलोधाभयचन्दनानि शरीरदोर्गन्ध्यहरः प्रदेहः ॥ २१ ॥
- गङ्गाधरः-शैवालेत्यादिना प्रदेह इत्यन्तेनैकेन श्लोकेनायं योगः सप्तविंशः । जलेन पिष्टा सर्व्वद्रव्यसमं घृतं मिश्रयिखा लेपः। निळपणः वद्विदग्धज्वालाप्रशमनः ।।१८॥ __गङ्गाधरः-सितालतेत्यादिना जलमेरका चेत्यन्तेनैकेनैकयोगो द्वादशभिद्रव्यरेपोऽष्टाविंशः। अत्र सितालता श्वेता , दूर्वा तु प्रचरिता, वेतसमम्लवेतसम्, ऐन्द्री गोरक्षककटी, नलिनानि पद्मकिजल्काः, यवासमूलं दुरालभामूल, कुशकाशयोश्च मूल प्रसङ्गादेकदेशान्वयाद्वा। जलवालकम्, एरका होग्गल इति नाम मजिष्ठा वा तृणविशेषो वा। एतानि जलेन पिष्टा लेपन निर्वापण स्यात् ॥१९॥
गङ्गाधरः-शैलेयमित्यादिना प्रदेह इत्यन्तेन पादत्रयेणकयोगः, नवभिदेव्यैरेप एकोनविंशो योगः। शैलेयं शैलज, चण्डा चोरपुष्पी, नतं तगरं, त्वक गुड़खक। जलेन पिष्टा लेपः । ०। विषमित्यादिनैकपादनकयोग एप त्रिंशः । योगस्तु द्वाभ्याम्। निहन्यादित्यनेनान्वयो विपमित्यस्य ॥२०॥
गङ्गाधरः शिरीषेत्यादिना प्रघर्ष इत्यन्तेनाद्धेनकयोगश्चतुर्भिद्रव्यैः। लामजकमुशीरं, हेम नागकेशरम् । अत्र जल पेपणार्थम् । एष एकत्रिंशो योगः । । पत्रेत्यादिना प्रदेह इत्यन्तेनाद्धेनको द्वात्रिंशो योगः। पत्र तेजपत्रम्, अम्बु
कुशकाशयोः मूलम् । अयं सितादिरेरका चेत्यन्त एकयोगः। जलं बालं, सिन्धुवारो निर्गुण्डी। विषमित्यादिरपरः प्रयोगः। लामज्जकमुशीरं, हेम नागकेशरम्, अभयमुशीरम् ॥९-२१॥
For Private and Personal Use Only