________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ]
सूत्रस्थानम् ।
२३१
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलु कृष्णगन्धे । फणिज्भको वत्सकसप्तपय पीलूनि कुष्ठं सुमनः प्रबालाः ॥ वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनश्च । मनःशिलाले गृहधूम एला काशीसलोधार्ज्जुनमुस्तसर्जाः ॥ इत्यर्द्धरूपैर्विहिताः पड़ेते गोपित्तपीताः पुनरेव पिष्टाः । सिद्धाः परं सर्वपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥
गुड़ चीनाड़म । मदनस्य फलम् । हरिद्राद्वयम् । गोपित्तेन सप्ताहं भावितानि । यारग्वधादीन्येतानि मिलितानि चर्णीभूतानि सन्ति भवन्ति, तदा गोपितमेतैः पीतं स्यादिति, तानि गोपित्तपीताः पुनरेव पिष्टाश्चूर्णानां प्रदेहा इत्याख्या भवन्ति । एवं सव्र्व्वत्र । कथं चूर्णखात् प्रदेहरूपेण प्रयोज्या इत्याह--परं सर्पपतैलयुक्ता इत्यनेन द्रवरूपत्वात् प्रदेहयोग्यत्वं सूचितम् । कस्मिन् कस्मिन् व्याधावित्याह- कुष्टानीत्यादि । कृच्छ्राणि कृच्छ्रसाध्यानि । एतान् व्याधीन् हन्युः प्रयुक्ताश्च त् स्युरेषु व्याधिषु । इत्यस्य चूर्णप्रदेहस्य व्याख्यानवदपरे पञ्च चर्णप्रदेहा व्याख्येयाः । तत्र श्रा इत्यादिनादन द्वितीयः । श्राद इति नवनीतखोटी | सुराहो देवदारुः तस्य सारं, खदिरधवयोश्च सारं, forate पत्र', fasङ्गस्य तण्डलाः, करवीरस्य वक् इति सप्तभिर्द्वितीयः ग्रन्थिच भौजे इत्यादिना कृष्णगन्ध इत्यन्तेन पड़ भिर्द्रव्यैस्तृतीयः । ग्रन्थिच भौर्ज इति भूर्ज ग्रन्थिः । शिरीषस्य त्वक, लोमशा भिषिः, कृष्णगन्धा शोभाञ्जनः | ० | फणिञ्झक इत्यादिना सुमनःप्रबाला इत्यन्तेन षड् भिचतुर्थः । फणिञ्झकः पर्णासभेदः, वत्सक इन्द्रयवः, पीलूनि काञ्चनदेशीयपर्व्वतजाक्षोड़फलानि, सुमनःप्रबाला जातीपल्लवाः कोमला एव वचेत्यादिना गैरिकमञ्जनञ्चेत्यन्तेन पञ्चमः । हरेणुका अञ्जनं रसाञ्जनम् | ० | आलेति हरिताल',
1
ग्राह्याः । ० ।
रेणुकः, निकुम्भो दन्ती, गैरिकं गिरिमृत् । मनःशिलेत्यादिना सर्जा इत्यन्तेन नवभिः षष्ठः । परिमार्जनभेषजेष्वारग्वधस्यैव प्रधानत्वख्यापनार्थम् । श्राहो नवनीतखोटिरिति प्रसिद्ध:, ग्रन्थि भौर्ज इति भूर्जपत्रग्रन्थिः, सलोमशः काशीशं तमालपत्रं वा, फणिल्झकः पर्णासभेदः, सुमनः प्रबाला जातीपल्लवाः, निकुम्भो दन्ती, आलं हरितालम्, अर्द्ध रूपैरित्यर्द्ध श्लोकैः, गोपित्तपीता इति पीतगोपत्ता मयूरव्यंसकादित्वात् पूर्व्वनिपातनियमात् ; यदि वा गोपित्त भावनया
For Private and Personal Use Only