________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२८
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता | ताम्रचूडर से सिद्धा रेतोमार्गरुजापहा । समाषविदला वृष्या घृतचीरोपसाधिता ॥ २३ ॥ उपोदिकादधिभ्यान्तु सिद्धा मदविनाशिनी । क्षुधं हन्यादपामार्ग क्षीरगोधारसे श्रुता ॥ २४ ॥ तत्र श्लोकाः ।
[ अपामार्गतदुलीयः
अष्टाविंशतिरित्येता यवाग्वः परिकीत्तिताः । पञ्च कर्माणि चाश्रित्य प्रोक्तो भैषज्यसंग्रहः ॥
गङ्गाधरः - ताम्रचूड़ेत्यादिना पञ्चविंशी । ताम्रचूडः कुक्कुटः ॥ समाषविदलेत्यादिना पड़ विंशी । अत्र माषविदल' तण्डुलसमं, क्षीरमत्र जलस्थाने, घृतन्तु यथायोग्यं भृष्टार्थम् ॥ २३ ॥
गङ्गाधरः- उपोदिकेत्यादिना सप्तविंशी । उपोदिका पुदिनेति लोके, सा च कल्करूपा । दधि तु जलस्थाने, मदविनाशिनी कोद्रवधुस्तूरादिमदनाशिनी ॥ क्षुधमित्यादिनाऽष्टाविंशी । अत्रापामागतण्डलान् क्षीरगोधाभ्यां सरसाभ्यां पत्तवेत्यर्थः 1 न व तण्डुलजले देये ॥ २४ ॥
गङ्गाधरः- आसां यवानां निद्दशप्रसङ्गादादावुपसंहारपूर्व्वकापामार्गतण्डुलादीनुपसंहत्त माह-तत्र श्लोका इति । उपसंहरति । अष्टाविंशतिरित्यादि । अपामागंतण्डुलादीनुपसंहरति । पञ्च कर्माणि चेत्यादि । ननु पूर्व्वाध्याये मूलिनी फलिनी च यावती निर्दिष्टा तदन्तर्गतान्यप्यपामागतण्डुलीये पुनरुक्तानीति पौनरुक्त्यमित्यत आह-पूर्व्वमित्यादि ।
For Private and Personal Use Only
ग्रहणमविशेषाभिधानात् । क्षुधं हन्यादित्यादौ अपामार्गतण्डुलास्तण्डुलस्थाने, क्षीरगोधामांसरसौ तु जलस्थाने ॥ २१–२४ ॥
चक्रपाणि: - प्रतिलोम तन्त्रयुक्तनाऽध्याय-संग्रहं करोति, अष्टाविंशतिरित्यादि । दीर्घञ्जीवितीये मूलिनीफलिनीगणपठितानामपामार्गजीमूतादीनां पुनर्वचने उपपत्तिमाह - पूर्वमित्यादि । - मूलफलज्ञानहेतोरिति अस्य मूलेन व्यवहारः, अस्य फलेन व्यवहार इति ज्ञातुमित्यर्थः । पञ्चकर्म्मणामाश्रयः, आश्रय शब्दश्च भावप्रधानः तेन पञ्चकर्म्माश्रयत्वे ज्ञानार्थमिति फलति । यद्यपि मूलिन्यश्च फलिन्यश्च दीर्घञ्जीवितीयेऽपि शणपुष्पी विम्बी चेत्यादिना ग्रन्थेन पञ्चकम्मश्रियत्वेनाtयुक्ताः, तथापीह मुख्यप्रपञ्च' नाभिधीयमानपञ्चकर्म्माश्रयद्रव्यगणेऽभिधानात् पञ्चकर्माश्रयत्वेन