________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
चरक-संहिता। अपामार्गतण्डु लोयः मात्राकालाश्रया युक्तिः सिद्धियुक्तौ प्रतिष्ठिता। तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा ॥७॥ अत ऊर्द्ध प्रवक्ष्यामि यवागूविविधौषधाः।
विविधानां विकाराणां तत्साध्यानां निवृत्तये ॥८॥ विचारयन् तानि पञ्च कर्माणि शिरोविरेचनादीनि कुर्वीत भिपगिति शषः॥६॥
गङ्गाधरः-ननु कथं मात्राकालविचारः काय्यः, द्रव्यं प्रयुक्तं स्वभावादेव स्वकार्य कुर्यात् इत्यत आह-मात्राकालेत्यादि । युक्तिद्रव्याणां योगे तर्कवितर्कादिर्मात्राकालाश्रया मात्राकालनिवन्धना । शरीरबलवह्निवलवयोव्याधिबलदोषबलाद्यनुरूपया मात्रया कालविशेपे च प्रयुक्तं द्रव्यं सम्यक् स्वकर्म कुर्चदारोग्याय भवति। सिद्धियुक्तो प्रतिष्ठितेति सिद्धिः चिकित्सितक्रियासिद्धिः। सुतरां “तिष्ठत्युपरि युक्तिको द्रव्यज्ञानवतां सदा" इति बोध्यम ॥७॥ ___ गङ्गाधरः-अथ स्वस्थातुरसाधारणतया पाञ्चकर्मि कद्रव्याप्युपदिश्यात ऊई पञ्चकम्मेद्रव्योपदेशात परमातुराणां व्याधिविशेषनिवृत्त्यपाहाररूपभेषजत्वेन यवागराह-अत ऊद्ध मित्यादि। अत ऊद्ध पञ्चकम्मेद्रव्योपदंशादूद्ध विविधोपधाः विविधान्यौपधानि साधनतया यासु तास्तथा यवागूः वाच्यम् । उत्तरवस्तिस्तु स्नेहरूपो निरूहः स्नेहवस्तावेवान्तर्भवति, यदि वेह वमनादिपु पञ्चकर्मसु पङ्कजशब्दवद योगरूढ़यं संज्ञा, तेन न स्नेहस्वेदनिष्टीवनादिपु वर्त्तते ॥६॥
चक्रपाणिः–मात्राकालविचारफलमाह-मात्राकालेत्यादि। युक्तिर्योजना, भेषजस्य देहदोषाद्यपेक्षया युक्ति स्तौति सिद्धिरित्यादिना । सिद्धिरिह विकारोपशमस्य साध्यस्य निष्पत्तिः॥७॥
चक्रपाणिः-इदानीं वमनादीनामयोगान्मन्दीभूतस्य वह्नः सन्धुक्षणार्थ तथा वमनादिषु अप्रयोगजनितस्य शूलादेः प्रशमनार्थ प्रतिज्ञापूर्वकं यवागरभिधत्ते–अत ऊद्धमित्यादि। उक्त हि यथाणुरग्निस्तृणगोमयादैवः सन्धुक्ष्यमाणो भवति क्रमेण। महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः” इति। पिप्पल्यादियवागूनिर्देश उपसाधितेति वचनं भेषजपानीयतण्डुलादिप्रकृतिद्रव्याणामुचितपरिमाणग्रहणार्थ, साक्षाद भेषजादीनां प्रमाणमिह नोक्त मात्राया अग्नधादिभेदेनावस्थितत्वात् ; यदुक्त “मात्राया नास्त्यवस्थानं दोषमग्निबलं वयः। व्याधि द्रव्यन्च कोष्टन्च वीक्ष्य मात्रां प्रयोजयेत्” इति। यद्यप्येवं तथापि परिभाषादर्शनात् वृद्धवैद्यव्यवहारदर्शनाच्च यथा कर्त्तव्यं तदुच्यते-यवागूसाधनद्रव्यं
For Private and Personal Use Only