SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९१४ चरक-संहिता। दीर्घजीवितोयः रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसंग्रहः। मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च ॥ मूत्र क्षीराणि वृक्षाश्च षड़ ये क्षीरत्वगाश्रयाः। कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः ॥ दवादिभिरभिमतलम्, श्रवा सूत्रणमर्थानामित्यादि-प्रतिष्ठां भुवि लेभिरे इत्यन्तैः सप्तभिः श्लोकैः ।। ततश्चायुर्वेदस्य निर्णय इति सप्रभेदायुर्निण्यसहितायुर्वेदस्य स्वरूपनिर्णयः, हिताहितं सुखं दुःखमित्यादि लोकयोरुभयोहितः-इत्यन्तैत्रिभिः श्लोकः।। ततोऽनन्तरं सर्वदा सर्वभावाणामित्यादिइत्युक्त कारण काय्येमित्यन्तैः सपादनवभिः श्लोकः सम्पूर्ण कारण कार्य मिश्ररूपेण | ततः परं धातुसाम्यमित्यादि-तत्रस्यास्य प्रयोजनमित्यन्तेन पादत्रयेणायुव्वेंदप्रयोजनम् ।। ततः परं कालबुद्धीत्यादि-पश्यति हि क्रिया इत्यन्तै स्त्रिभिः श्लोकतवश्व व्याधीनामारोग्यस्य च जनकरूपा आश्रयरूपाश्च हेतव एतेन शरीरसत्त्वसंशयो रोगारोग्याश्रयत्ववचनमात्मनश्च निविकारखवचनम् ।। ततः परं वायुः पित्तमित्यादिना तम एव चेत्यन्तेनैकेन श्लोकेन दोषाश्च व्याधीनां समवायिकारणरूपा दुप्ट्याश्रयाश्च हेतव इत्यन्वयः ।। ततः पर भेषजं संग्रहेण च, सङ्क्ष पेण व्याधीनां भेषजं प्रशाम्यतीत्यादिना समाधिभिरित्यन्तेनैकेन श्लोकेन। रुक्षः शीत इत्यादिविपरीतगुणैर्गुणा इत्यन्तै स्विभिः श्लोकः शारीरदोषाणां भेषजम् । विपरीतगुणैरित्यादिव्याधीनामुपदिश्यते इत्यन्तेन साद्धे श्लोकेन साधारणत्वेन व्याधीनां भेषजमिति संग्रहण सार्द्ध पञ्चभिः श्लीकैर्भेषजम् ।। ततः परभूयश्चात इत्यादि-लवणाः कफमित्य-तैः साद्धचतुःश्लोकः सप्रत्ययद्रव्यरसाः, अभिव्यक्तिकारणाश्रयभूतकारणः सहिता रसाः ।। ततश्च किश्चित् दोषप्रशमनमित्यादि भिरौद्भिदो गण इत्यन्तैः साधेसप्तभिः श्लोकैस्त्रिविधो द्रव्यसंग्रहः ; जाङ्गमभौमाद्भिदभेदेन त्रिविधद्रव्यसंग्रहः ।। ततोऽनन्तर मूलिन्य इत्यादि-स वेदविदित्यन्तेन समनुगीयते। तद्ववक्तिव्यवसायार्थ द्विरुक्ति: सा न गृह्यते ॥” अत्र च गद्योक्त इति विस्तरोतोपलक्षणं, तेन श्लोकोक्तस्याप्यारम्बधीयाद्यर्थस्य पुनः श्लोकेन संग्रहणमविरुद्धं । व्यक्तिः स्पष्टता। व्यवसायोऽवधारणम्। आगम इति दीर्घजीवितमन्विच्छन्नित्यादिना। हेतुरित्यायुर्वेदागमहेतुः, स च विघ्नभता यदा रोगा इत्यादिना रोगप्रादुर्भाव उक्तः, किंवा दीर्घजीवितमन्विच्छन्नित्यादिः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy