________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (दीर्घजीवितीयः ज्योतिष्मती च विम्बी च शणपुष्पी विषाणिका। अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोड़शी। शणपुष्पी च विम्बी च च्छईने हैमवत्यपि । श्वेता ज्योतिष्मतो चैव योज्या शीर्षविरेचने ॥ एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने। इत्युक्ता नामकर्मभ्यां मूलिन्यः फलिनीः शृण ॥३६ ॥ शविन्यथ विडङ्गानि त्रपुषं मदनानि च। आनूपं स्थलजञ्चव क्लीतकं द्विविधं स्मृतम् ॥
विषाणिका मषशृङ्गी। अजगन्धा अजमोदा। द्रवन्ती दन्तीभदः । क्षीरणा खनामख्याता स्वर्णक्षीरी।
आसां पोड़शानां मूलिनीनां काण्याह,-शणपुष्पीत्यादि।हस्तिदन्त्यादीनां षोड़शानां मूलिनीनां मध्ये शणपुष्पीविम्बीहैमवतीनां तिसृणां मूल छईनवाच्छद्द नार्थ प्रयोक्तव्यमिति। श्वेताज्योतिष्मत्योस्तु मूल शिरोविरेचनमतः शीर्षविरेचने योक्तव्यम् । अवशिष्टा या एकादश हस्तिदन्ती श्यामा त्रित् वृद्धदारः सप्तला प्रत्यश्रेणी गवाक्षी विषाणी अजगन्धा द्रवन्ती क्षीरिणी चेति तासां मूल विरेचनेऽधोभागहरणे प्रयोज्यमिति मूलप्रयोगात् ता एव प्रयोज्या भवन्ति। आसामूर्द्धादिभागहरणवं
खस्वप्रभावात् । - उपसंहरति, इत्युक्तेत्यादि।-नाम संज्ञा, कर्म स्वस्वप्रभावजम् । न त्वारम्भक-भूतानां क्रिया च ऊ दिभागहरणत्वरूपविशेषाभावात् ।
फलिनीरूनविंशतिं शृणु। नामकर्मभ्यामित्यन्वयः॥३९॥
गङ्गाधरः-तत्रादौ नामानि निदि शति, शङ्खिनीत्यादि।-शङ्खिनी चोरपुष्पी। त्रपुष मायाम्बुफलम् । वन्या वनकर्कोटो। मदनानीति आवत्तनी, अजगन्धा फौकान्दी काकाण्डी ख्याता, द्रवन्ती द्वन्त्येव चीरितपला, क्षीरिणी दुन्धिका। मूलिनीनां वमनादिविनियोगमाह-शणपुष्पीत्यादि ॥ ३९
चक्रपाणिः-शङ्खिनी श्वेतवुह्ला, क्लीतकं यटीमधु, अस्य तु यद्यपि मूलं सुश्रुते प्रशस्तं, मूलेनैव व्यवहारः, तथापि विरेचनं प्रति यथीमधुद्वयस्यापि फलमेव प्रशस्तं ज्ञेयम्। धामार्गवः
For Private and Personal Use Only