________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् ।
१८५ स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च । कषायश्चेति षट्कोऽयं रसानां संग्रहः स्मृतः ॥ खाद्वम्ललवणा वायु कषायस्वादुतिक्तकाः । जयन्ति पित्तं श्लप्माणं कषायकटुतिक्तकाः ॥ ३४ ॥ * गङ्गाधरः-ननु विशेषे च प्रत्ययाः खादयस्त्रय इति चोक्तं, ते च विशेषाः के इत्यत आह–स्वादुरम्लोऽथेत्यादि। स्वादुरिति मधुर इत्यर्थः। स्वाद्वादीनामुत्तरोत्तरापकर्षात् पूर्वपूर्वमभिधानम् षट्कोऽयमिति षड़व, न तु सप्तकादिरित्यर्थः। पुनः सयावचनात् स्वाद्वादिविशेषस्तु खादियद्भ तसंयोगादेव भवति तदुक्तं सुश्रु तेनापि “भूम्यम्बुगुणबाहुल्यान्मधुरः। तोयाग्निगुणबाहुल्यादम्लः। भूम्यग्निगुणबाहुल्याल्लवणः। वाव निगुणबाहुल्यात् कटुकः । वाय्वाकाशगुणबाहुल्यात्तिक्तकः। पृथिव्यनिलगुणबाहुल्यात् कषाय इति।"
स्वयमपि वक्ष्यत्यात्रेयभद्रकाप्यीये। “सौम्याः खल्वापोऽन्तरीक्षप्रभवाः प्रकृतिशीता लघ्वाश्चाव्यक्तरसास्वन्तरीक्षादभ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतविकारगुणसमन्विता जङ्गमस्थावराणां भूतानां मूत्तीरभिप्रीणयन्ति । तासु च मूत्तिषु पड़भिमूच्छन्ति रसा , तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः। भूम्यग्निभूयिष्ठखादम्लः । तोयाग्निभूयिष्ठखाल्लवणः । वाय्वग्निभूयिष्ठलात् कटुकः । वावाकाशातिरेकात्तिक्तकः। पवनपृथिव्यतिरेकात् कषायः । एवमेषां षण्णां रसानां पट्समुपपन्नं न्यूनातिरेकविशेषाद भूतानाम्” इत्यादिना रसानामूर्द्धादिभाजिवं प्रत्येकेन स्वरूपवं गुणकर्मादिकश्च विशेषेण वक्ष्यति।
चक्रपाणिः-रसविशेषानाह-स्वादुरित्यादि। अत्र सर्वप्राणिनामिष्टत्वादादा मधुर उक्ता, तदनु च प्राण्यभीप्टोत्कर्षक्रमेणैवादिनिर्देशक्रमो बोद्धव्यः । षटक इति पुनः संख्याकरणं परवादिमतसप्तसंख्यत्वादिनिषेधार्थम् । अयं संग्रह इत्यनेनावान्तरभेदबहुत्व तथा वक्ष्यमाणरससंसगबहुत्वञ्च दर्शयति । रसानामुपयुक्ततरं काय्यमाह-स्वाद्वम्लेत्यादि। अन्न च वायोर्नीरसस्यापि
* अध्यायान्ते संग्रहश्लोकटीकायां "भूयश्चात इत्यादि लवणाः कफमित्यन्तैः सार्द्धचतुथ्यश्लोकः सप्रत्ययद्रव्यरसा उक्ताः” इति विवृतं गङ्गाधरेण ; आदर्शपुस्तकेषु श्लोकस्यैकस्य अनुल्लेखात् न पूर्यते सा संख्या, अतः स श्लोको विनिवेशितोऽस्माभिरत्र पादटिप्पण्याम् । यथा
“कटुम्ललवणाः पित्तं कोपयन्ति समीरणम् । कपायकटुतिक्ताश्च स्वाद्वम्ललवणाः कफम् ॥” इति ।
२४
For Private and Personal Use Only