________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
चरक-संहिता। दीर्घजीवितीयः परे। पूर्वः पूव्वगुणश्चैव क्रमशो गुणिषु स्मृतः ॥” इति। जलानुपविष्टायां क्षितावपि रसोपलम्भात् क्षितिश्च सह रसेन भौतिकद्रव्योत्पत्तौ गुणकश्रियसमवायिकारणमिति रसस्य नित्तौ च द्रव्यमिति। अत एव मुश्रुतेनोक्तं "तस्मादाप्यो रसः” इति न तु पार्थिवोऽपि रस इति, स्वयञ्च घ्राणार्थी रस इति न कृतम् ।
नन्वेवश्चत् कथं मधुरादिप्रविभागः स्यादित्यत आह,-विशेष चेत्यादि । विशेष रसस्य प्रभेदं प्रति च खादयस्त्रय आकाशवायवनयस्त्रयः प्रत्यया हेतवः। निर्दे शादेव त्रय इति प्राप्तौ पुनस्त्रय इत्यनेन व्यस्ताः समस्ताश्च हेतव इति दर्शितम् । तेन भूम्यम्बुगुणबाहुल्यान्मपर इत्यादि वक्ष्यते । एतेनैतदुक्तं भवति नाप्सु न च क्षितौ मधुरादिरसविशेषो वर्तते, किन्तु रसनार्थों यः कश्चिातो भावो रसनेन प्रत्यक्षमुपलभ्यते पाश्चभौतिकेषु द्रव्येषु स खलु तेषु पञ्चभिभूतैर्जन्यमानेषु द्रव्येष्वदभ्यः क्षितेश्चै वाभिव्यज्यमानः खादिभूतत्रय-जल-क्षिति-संयोगान्मधुरादि-विशेषेणाभिव्यज्यते । इति खादयस्त्रयो विशेषे प्रत्यया हेतवो न तु प्रकृतिभूतकारणानि ।
ननु जलक्षित्योरिव किं पाश्चभौतिके पूर्वमव्यक्तोऽथ व्यक्तो वा रसोऽभिनिवर्तते ततो विशेष इत्याशङ्कायां चकारद्वयं युगपद्रसस्य जलक्षितिभ्यां नित्तिः खादिभियोगे च मधुरादिविशेष इत्यर्थः । उक्त च सुश्रुतेन रसविशेषविज्ञानीये"आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिटद्धाः शब्दस्पर्शरूपरसगन्धास्तस्मादाप्यो रसः। परस्परसंसर्गात् परस्परानुग्रहाच परस्परानुप्रवेशाच सव्वेषु सर्वेषां सान्निध्यमस्ति, उत्कर्षापकर्षात्तु ग्रहणम् । स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढ़ाभिव्यज्यते। तद यथा-मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति” ॥३३॥ निवृत्तावभिव्यक्तौ प्रत्ययो नापः ; यत आपो ह्यव्यक्तरसा एव, क्षितिसम्बन्धादेव च रसोऽभिव्यक्त उपलभ्यते, उक्तञ्च “जङ्गमस्थावराणां भूतानां मूर्ती रभिप्रीणयन्ति यासु षड़भिमूर्च्छन्ति रसाः" इति। तेन पार्थिवद्रव्यसम्बन्धादेवापां रसो व्यज्यते,, नान्यथा। विशेषे चेति चकारात अक्षिती विशेष कारणे, यद्यपि चाक्षिती विशेष कारणे, तथापि “सोमगुणातिरेकात मधुरः" इत्यादौ तु खादय एव तथा सन्निविशन्ति यथा सोमोऽतिरिक्तो भवति, तेन तत्रापि ऊनत्वेन सन्निविष्टाः खादय एव विशेषहेतव इति । यद्यपि चाभिव्यक्तिमधुरादिविशेषरहिता क्वचिद्भवति तथापि सामान्येन सर्वत्र यदभिव्यक्तयेऽनुगतं कारणमुपलभ्यते क्षितिरूपं जलक्षितिरूपं वा तदभिव्यक्तिकारणं, यदनुगमात् तु मधुरादिविशेषोपलब्धिस्तद्विशेषकारणमुच्यते ॥ ३३ ॥
For Private and Personal Use Only