________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१
म अध्यायः
सूत्रस्थानम् । .सन् जुष्टमनेकैोगमार्गः कर्मभिश्च सेवितमन्यं स्वेतरं शिवं परमात्मानमीश्वरं पश्यति महिमानश्चास्येदं सव्वं यदा पश्यति तदा सर्वस्माच्छोकसागराद्वीतो भवति। रसो ह्यष ईशः । रसं ह्य वायं लब्ध्वानन्दी भवतीत्यर्थ । ___ एप भोक्ता भूताला विविध प्राज्ञश्व उक्तो माण्डूक्योपनिषदि वैश्वानरतैजसभेदात।
"अयमात्मा ब्रह्म, सोऽयमात्मा चतुष्पात्। तत्र जागरितस्थानो वहिःप्रक्षः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः । स्वास्थानोऽन्तःप्रशः सप्ताङ्ग एकोनविंशतिमुवः प्रविविक्तभुक् तैजसो द्वितीयः पादः। यत्र सुप्तो न कञ्चन कामं कामयते न कश्चन स्वप्न पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राशस्तृतीयः पादः। एष सवेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येप योनिः सर्वस्य प्रभवाप्ययो हि भूतानाम् । नान्तःप्रज्ञ न वहिःप्रज्ञ नोभयतःप्रज्ञन प्रज्ञानघन न प्रज्ञ नाप्रशम् । अदृष्ट. मव्यवहार्य मव्यपदेश्यमचिन्त्यमलक्षणकालप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते । एष आत्मा स विज्ञ यः” इति।
नन्वयं वैश्वानरः किपालकः किं सप्ताङ्गश्चति ? उच्यते, यथोक्त छान्दोग्योपनिषदि प्राचीनशाल औपमन्यवः सत्ययज्ञः पौल्लुषिरिन्द्रद्यन्नो भाल्लवेयो, जनः शार्कराक्ष्यो बुडिल आश्वतराश्विरेते वैश्वानरमात्मानं श्रोतुं कैकेयमभ्याजग्मुः।
तानुवाच कैकेयः। औपमन्यव कं वमात्मानमुपास्स इति। दिवमेव भगवो राजनिति होवाच । एष वै सुतेजा आत्मा वैश्वानरो यं खमात्मानमुपास्से तस्मात् तव सुतं प्रसुतमासुतं कुले दृश्यते । अत्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्चसं कुले, य एतमात्मानं वैश्वानरमुपास्ते। मूर्द्धा वेष आत्यन इति होवाच मूर्धा ते व्यपतिष्यद यन्मां नागमिष्य इति। अथ होवाच सत्ययज्ञपौल्ल पिम् । प्राचीनयोग्य के खमात्मानमुपास्स इति ।
आदित्यमेव भगवो राजनिति होवाच। एष वै विश्वरूप आत्मा वैश्वानरो यं खमात्मानमुपास्से तस्मात् तव बहु विश्वरूपं कुले दृश्यते । प्रवृत्तोऽश्वतरी रथो दासी निष्कोऽत्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्चसं कुले, य एतमेवात्मानं वैश्वानरमुपास्ते। चक्षुस्वेष आत्मन इति होवाच । अन्धोऽभविष्यद यन्मां नागमिष्य इति। अथ होवाचेन्द्रदुम्नं भाल्लवेयम् । वैयाघ्रपदा के खमात्मानमुपास्स इति ।
For Private and Personal Use Only