________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्याय: ]
सूत्रस्थानम् ।
१५६
निमित्तखान् प्राणिनान्तु मुखादिविकारो हर्षादिनिमित्त एव न पद्मायप्राणिप्रबोधादिविकारवत् । तस्मात् पूर्वोक्तरूपेणाला नित्य इति ।
अथात्मनित्यत्वे हेत्वन्तरञ्चाह । प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् । प्रेत्य मरणानन्तरं जातस्य शिशोराहाराभ्यासकृतात् स्वन्याभिलाषात् । पूव्वजन्मनि यद यदाहारः कृतस्तदाहाराभिलाषः प्रवृत्तिनिवृत्तिजनकः । स एवैतजन्मनि शिशोः स्वादुताजीवनयात्राक्षु पिपासानिवृत्तिहेतुतया स्मरणेन स्तन्यपानादावभिलाप इत्यत आत्मा नित्यः ।
अत्र नास्तिकाः । अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् । यथायस्कान्तसन्निहितस्याय सोऽयस्कान्ताभिमुखगमनं विनाभ्यासेन भवति तथा वत्सस्यापि स्तन्यपानादौ वाञ्छ्या स्तनोपसपणमिति न तु तत्रेष्टसाधनता बुद्धाभिसर्पणमिति ।
अत्रास्तिक आह । नान्यत्र प्रवृत्त्यभावात् । अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पण' न । कस्मात् ? अन्यत्र प्रत्ताभावात् । जीवनयात्रा क्षुत्पिपासा - शान्त्यादीष्टसाधनता बुद्धयाऽन्यत्र मातृहस्तादौ मवृत्ताभावात् । यदि लोष्ट्रादेयस्कान्ताभिसरण स्यात् तदा तद्वत् स्तन्याभिगमनं बालानां द्रव्यस्वभावात् स्यादिति । अतएवात्मा नित्यः ।
तत्राहुर्नास्तिकाः । ननु पूर्व जन्मनि यो विगतराग आसीत्तस्य पुनर्जन्मनि कथं स्तन्यादौ प्रवृत्तिः स्यादभिलाषाभावादिति ।
तत्राह - वीतरागजन्मादर्शनात् । विगतरागस्य पुनर्जन्म नास्तीति दर्शनानायसोऽयस्कान्ताभिगमनवत्तदुपसर्पणन् । सरागस्यैव पुनर्जन्मनि भवतीति प्रत्याहाराभ्यासकृतस्तन्याभिलाषः ।
अत्राहुर्नास्तिकाः । सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः । यथा सगुणस्य गुणसहितस्यैवाकाशादेर्घटादेव द्रव्यस्योतपत्तिस्तथा नित्यचैतन्यबुद्धिमत एवात्मनो रागविगमेऽपि सह रागेणैव भवत्युत्पत्तिः ।
अत्रास्तिक आह । न सङ्कल्पनिमित्तत्वाद्रागादीनाम्। सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिर्न । कस्मात् ? सङ्कल्पनिमित्तखाद्रागादीनाम् । आत्मनो नित्यरागादीनां कारणभूतानां नाशमन्तरेण न वाच्छादिरूपरागादिनाशः स्यादतो वीतरागस्य जन्माभावात् । वीतरागजनस्य स्तन्यादौ वाञ्छादयो न स्युः स्तन्यादावभिलाषजनकानां रागादीनां मनःसङ्कल्पनिमित्तत्वादिति ।
नास्तिकानामात्मनोऽनित्यत्ववादनिरासे सति त्वात्मनो नित्यत्वे सिद्धे चेयमाशङ्का भवति । निव्र्व्विकारः परस्त्वात्मेति यदुक्त तद दुःखरूप विकाराभावे कथ
For Private and Personal Use Only