________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
... चरक-संहिता। (दीर्घजीवितीयः ततः कर्ता निरुच्यते। अचेतनखाच मनः क्रियावदपि नोच्यते ॥ इच्छा द्वेषः सुख दुःख प्रयत्नश्चेतना धृतिः। बुद्धिः स्मृतिरहकारो लिङ्गानि परमात्मनः ॥" इति।
नन्वेवञ्च द बुद्धग्रादयो मनसि खात्मतो नोत्पद्यन्ताम् । आत्मनस्तु खलु खस्मिन्नेव जायन्तामिति चेत्, किमुपादानास्तदात्मनि बुद्धग्रादयो भवन्ति न हि महदहङ्कारौ वात्मनि तिष्ठतः। किन्तु मनसि वत्तेते। उक्त हि मनुना। “उद्ववत्मिनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहङ्कारयभिमन्तारमीश्वरम् । महान्तमपि चात्मानं सर्वाणि त्रिगुणानि च ॥” इति।
अत्र नारायणो ब्रह्मत्यनुवर्त्तते । तत्र चेदात्मनो ये नित्यचैतन्यबुद्धग्रादयस्तदुपादाना भवन्तीत्युच्यते तत आह नित्य इति ।
आत्मा समत्रिगुणसमुदायात्मको नित्यः। कथं तस्य नित्यबुद्धादयः परिणता अनित्यबुद्धग्रादयः सन्तो मुहुमुहुर्जायन्ते निर्विकारखात् तस्मान्नात्मा नित्य इति चेत्तत्रोक्तमक्षपादगौतमेनात्मा नित्य इति । कस्मात् ? __ प्रत्य पुनः। पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तः । आत्मा नित्यः, कस्मात् ? पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हषभयशोकसम्पतिपत्तेः। जातस्य शिशोरेतज्जन्मनि हर्षादिहेतुज्ञानाभावेऽपि पूर्वजन्मन्यभ्यस्तानां हर्षादिहेतूनां स्मृत्यनुबन्धात् हर्षादिहेतूनामुपस्थिती हर्षादीनां सम्प्रतिपत्तबोधात् ।
अत्रायं तर्कः। आत्मा यदि पूर्वजन्मनि खल्वयं नावतिष्यत तर्हि नेदानी हर्षादिहेतुमानेऽपि हर्षादिहेतावुपस्थिते हर्षादिमानभविष्यत् । तस्मात् पूर्वजन्मनि यो मृतस्यात्मा तेन यत्तजन्मनि अनुभवेनाभ्यस्तं तस्य स्मृत्यनुबन्धादेतज्जन्मनि च स एव हर्षादिहेत्वज्ञानेऽपि हर्षादिहेतावुपस्थिते हर्षादिमान् भवतीति आत्मा नित्यः, एतेनास्ति पुनर्भव इति च ख्यापितम् । __ अत्राहुर्नास्तिकाः । पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः। जातस्य हर्षादयो ये मुखविकाशादिभिर्भवद्भिरनुमीयन्ते न च ते मुखविकाशादयो हर्षादिजा हर्षादिहेवज्ञानात् हर्षाद्यसम्भवात् । किन्तु जातस्य शिशोमुखादिविकाराः, यथा पद्मादीनां प्रबोधसम्मीलनादिविकार इति ।
तत्राहास्तिकः। नोष्णशीतवर्षाकालनिमित्तखात् पश्चात्मकविकाराणाम् । पद्मादिषु प्रबोधादिविकारवत तद्विकारो न। कस्मात् ? पश्चात्मकविकाराणामुष्णशीतवर्षाकालनिमित्तखात्। पञ्चभूतात्मकपद्मविकाराणामुष्णादिकाल
For Private and Personal Use Only