________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
चरक-संहिता। [दीर्घजीवितीयः धातुखम् । वक्ष्यते हि शारीर । अस्त्युपपादुकं सत्वसंशकं नामेति । तथतदभिः प्रायेण च वक्ष्यते। “खादयश्चेतनाधातुषष्ठास्तु पुरुषः स्मृतः" इति। - अत्र सूक्ष्मेन्द्रियाणां मनसो भौतिकवाभावेन खादिष्वन्तर्भावाभावाच्च तनाधातुश्चात्मा तत्राप्यन्तर्भावाभावाच्च । खादिषधातुकलं पुरुषस्येति कश्चित्, तन्न, शारीरे सत्त्वादीनां सूक्ष्मशरीरस्थानां कार्यतया स्थूलशरीरे मनःप्रभृतेवेक्ष्यमाणखात् “रूपाद विरूपप्रभवः प्रसिद्धः कत्मिकानां मनसो मनस्तः” इति । ततस्तु “धातुभेदेन चतुर्विंशतिकः स्मृतः” इति वक्ष्यमाणेन सत्त्वेन्द्रियादीनां धातुख समवायिकारणवञ्च स्थूलदेहारम्भे वक्ष्यते ; तहि खादयश्चेतनाधातुषष्ठास्तु पुरुषः स्मृत इति कथं षड़धातुवं सङ्गच्छते इति चेत्तदोच्यते। तत्र चेतनाधातुः पुरुषः सूक्ष्मदेहीति तदन्तर्गतानि सूक्ष्ममनइन्द्रियाणि। एतदभिप्रायेण सुश्रुतेऽप्युक्तं “पञ्चमहाभूतशरीरिसमवायः पुरुषः।” इति। निमित्तमात्रत आधानजास्तु गुणाः शास्त्राध्ययनादिधनबान्धवादिलाभालाभादिनिमित्ततो बुद्धीच्छादयो ढक्कादिषु वृहच्छब्दादयो लाजादिषु लघुखादयः। एवं परखादयोऽपि बोध्या इति।
नन्वेवश्च दात्मजा ये बुद्धग्रादयो गुणाः सूक्ष्ममनःप्रभृतिषु वत्तन्त इति भवद्भिरुच्यते, ते खल्वस्माभिरात्मन्येवेष्यन्ते तेन पुनः का हानिरिति चेन्न । बुद्धीच्छादीनां वृद्धिहासाभ्यां गुणतो वृद्धिहासावात्मनो भवतस्तेनोक्तस्य विकारखदोषतादवस्थ्यात् । न चैष चेतनाधातुरनित्यः, तस्य सूक्ष्मशरीरिणो नित्यखेन स्वरूपतो गुणतः कम्मतो वा न वृद्धिहासो सम्भवतः। स्थूलपुरुषोत्पादने तु तदारम्भकात्मजसत्त्वादिगुणपञ्चमहाभूतशुक्रात्तवीयपश्चभूतान्यनुपविश्य विक्रियमाणैस्तैरुपाहितानि स्थूलमनइन्द्रियशरीराणि भवन्ति, सूक्ष्मदेहस्थानि मनइन्द्रियमहाभूतानि न च विक्रियन्ते। इति चेत् तर्हि अत्र सत्त्वस्य पृथगुपादानमनथकं स्यादत इह परस्त्वात्मा खलु क्षेत्रशः समत्रिगुणलक्षणाव्यक्ताख्य इति शापनार्थमुक्तम्-नित्य इति।
तथा सति सूक्ष्मस्यात्मनोऽव्यक्तस्य समसत्वरजस्तमोभिरुपाहितपुरुषस्य चेतनाधातुव्ययवासम्मवेन नित्यखाव्याघातो व्ययवाभावाद विनाशिवाचति । ततः किमात्मनो बुद्धीच्छादितो वृद्धिहासौ न स्त इति चेत्, तत्रोच्यते खस्माभिःसूक्ष्मस्याव्यक्तस्यात्मनो नित्यबुद्धग्रादने वृद्धिहासौ महदहङ्कारविकारस्योपास्तु वस्थानुभूतार्थप्रतिसन्धानात् । न ह्यनित्ये ज्ञातरि पूर्वानुभूतमर्थमुत्तरो ज्ञाता प्रतिसन्धत्ते, न हि देवदत्तबुद्धमर्थ यज्ञदत्तोऽवगतत्वेन प्रतिसन्दधाति। ननु, दृश्यते ज्ञानवतः सुखोपलब्धौ
For Private and Personal Use Only