________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
११७७
सूत्रस्थानम् । दीर्घजीवोऽप्यपामार्ग-तण्डुलारग्बधादिको। षडूविरेकाश्रयश्चेति चतुष्को भेषजाश्रयः ॥ मात्रातस्याशितीयौ च नवेगान्धारणं तथा। इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तकाः ॥ खुड्डाकश्च चतुष्पादो महांस्तिस्रषणस्तथा। सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः ॥
ध्यायशतमिति ; विंशतिसंख्याविशिष्टमध्यायानां शतं नामसंख्ये चात्र संख्येया, सविंशेति बहुव्रीहेर्वाच्या ; तत्र गम्यायां संख्याया विंशत्या सह अव्ययस्य सहशब्दस्य बहुव्रीहिः समासः- "संख्ययाऽव्ययासन्नदूराधिकसंख्याः संख्येये" इति पाणिनीयसूत्रेण । बहुव्रीहिणा वाच्ये संख्येये संख्याविशिष्टे सति संख्यया संख्यागुणमात्राथैकपदेन सहाव्ययसंज्ञकादयः समस्यन्ते, स समासो बहुव्रीहिः इत्युच्यते । कथं गुणो गुणे वत्तेते इति चेत् १ न, गुणलक्षणे कार्यगुणाश्रयो न गुण इत्युक्त्या कारणगुणाश्रयत्वाबाधात् काय्यगुणानां कारणगुणानाञ्च । यथा षट् रसा मधुरादयः काय्ये गुणाः; त्रीणि रूपाणि लोहितशुक्ल कृष्णाखानि । दुग्धमाधुयो दिक्षुमाधुय्यमधिकं परिमाणेन । रूपात् पृथग्रसः । तथा द्वे विंशती घटानां, दशदशं शतं घटानां, पञ्चपञ्चं घटानां, त्रिपञ्चाः पञ्चदश घटाः। अत एव आ दशभ्यः संखयाः संख्येये ततः परं संखयाने संख्येये चेति प्रमादिनां वचनम् असाधु । विंशत्यादिसंखवासु संख्यावत्त्ववचनात् संखवायां संखयास्वीकारात् । आदशसंखाशब्दानां संखयानार्थानङ्गीकारस्यार्षानुशासनाभावात् लक्षाणां पञ्च लोभ इति प्रयोगदर्शनाच्च त्रिपञ्चारे पीठे इति कपूरादिस्तोत्रे महाकालकृतप्रयोगाच्च । एतदभिप्रायेण कणादेनोक्तं वैशेषिकशासने गुणोऽपि विभाव्यते गुणेनापि इति ॥२०॥
गङ्गाधरः-तत्प्रपञ्चेन स्थानार्थानध्यायान् क्रमेणाह-दीर्घञ्जीव इत्यादि ।
तेन ललितेश्वरे च चतुर्वि शाधिकम्” इति प्रयोगः सिद्धो भवति, वचनं हि-“चतुर्विंशाधिक ज्ञानं भुवनानां शतत्रयम्” इति ; एवं प्रस्तुतेऽपि “सविंशम्” इति व्याख्येयम् ॥ १९ ॥ २० ॥
चक्रपाणिः---'दीर्घजीव' इत्यादयः श्लोकानुरोधादेकदेशलक्षणा बोद्धव्याः, प्राणदेहार्थों
For Private and Personal Use Only