________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११७६
'चरक-संहिता। अर्थेदशमहामूलीयः स्थानानि, द्वादशकमिन्द्रियाणां, त्रिशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः ॥१८॥
भवन्ति चात्र। द्वे त्रिशके द्वादशकं त्रयश्च त्रीण्यष्टकान्येषु समाप्तिरुक्ता। श्लोकौषधारिष्टविकल्पसिद्धि-निदानमानाश्रयसंज्ञकेषु ॥१६॥ स्वे स्वे स्थाने यथावञ्च स्थानार्थ उपदेच्यते । सविंशमध्यायशतं शृणु नाम क्रमागतम् ॥ २० ॥ अध्याया अभिधेयाः। निदान-विमान-शारीरस्थानानि अष्टाष्टाध्यायानि; अष्टाध्यायं निदानस्थानञ्च विमानस्थानञ्च शारीरस्थानञ्चेति। शेपं स्पष्टम् ॥१८॥
गङ्गाधरः-एतदर्थकश्लोकमाह-भवन्ति चात्रेति । द त्रिंशके। द्वे श्लोकस्थानचिकित्सास्थानेषु त्रिंशके त्रिंशत्-त्रिंशदध्याये भवतः। त्रयश्च स्थानम् इन्द्रियस्थानं कल्पस्थानं सिद्धिस्थानञ्चेति त्रयं द्वादशकं द्वादशद्वादशाध्यायम् । त्रीणि स्थानानि खलु निदानस्थान-विमानस्थान-शारीरस्थानानि अष्टकानि अष्टाष्टाध्यायानि भवन्तीति, एषु श्लोकस्थानौषधस्थानारिष्टस्थानविकल्पस्थानसिद्धिस्थाननिदानस्थानविमानस्थानाश्रयस्थानसंज्ञकेषु अष्टसु तन्त्रस्यास्य समाप्तिरुक्ता तन्त्रका ॥ १९॥
गङ्गाधरः-स्थानार्थविस्तरमाह-स्वे स्वे इत्यादि। स्वे स्वे स्थाने तेषां तेषाम् अध्यायाः स्थानार्थस्तत्तन्नामभिविस्तरेणात ऊर्द्ध मुपदेक्ष्यते। तत्र नाम क्रमागतं सविंशमध्यायशतं मे शृणु। अध्यायानां शतमिति संख्या गुणमात्रवचनं शतमिति, तस्य विशेषणं सविंशमिति, विंशत्या संख्यया सह वत्तते यत् तत्ऋत्वादिः, क्रियाकालश्च। कती भिषक् । करगं भेषजम् । विधिविधानमुपकल्पना, सा च कालव्याधिद्रव्यापेक्षया बोद्धव्या, यथा-"हेमन्तेऽभ्यस्यतस्तोयमुष्णमायुन हीयते' इत्यादि । देशस्त्वनाऽहितो हेतुग्रहणेन, हितस्तु देशः करणग्रहणेन गृहीतो मन्तव्यः ; शरीरवृत्त्यादिभेदाश्च बहवः कृत्स्नतन्त्रे बुद्धिमता बोद्रव्याः ; केवलेनेति समग्रोण ; इन्द्रियाणां चिकित्सितानाच त्युभयत्रापि स्थानमिति शेषः ॥ १७॥१८॥
चक्रपाणिः-त्रिंशके सूत्रे चिकित्सिते च। आश्रयसंज्ञकं शारीरस्थानम्, आश्रयो हि शरीर. मुच्यते। सविंशमिति विंशतिशब्दात् स्वाथ 'ड', यतः स्वार्थिकश्च डप्रत्ययो भवति,
For Private and Personal Use Only