________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम् ।
११६५ योगात् । एष चात्मसंग्रहो* विभाव्यते । आयुर्वेदलक्षणमिति तु यत् तत् पुनर्गुरुलघुशीतोष्णस्निग्धरुक्षादीनाञ्च द्रव्याण+ सामान्यविशेषाभ्याञ्च वृद्धिहासौ यथोक्तम्। गुरुभिरभ्यस्यइत्येवमुत्तरोत्तरयोगादिति सव्वं नित्यमनादिखात् स्वभावसंसिद्धलक्षणखात् भावस्वभावनित्यखात्। इत्यनादिखप्रकारं दर्शयिता स्वभावसिद्धलक्षणखप्रकारं दर्शयति - एप चेत्यादि। एष चात्मसंग्रहो लक्षणसमुदायरूपस्य स्वस्य संग्रहः संक्षेपो विभाव्यते चिन्त्यते। तद् यथा-आयुर्वेदलक्षणमिति । हिता हितसुखदुःखायुषस्तद्धिताहितप्रमाणाप्रमाणोपदेश आयुव्वेद इत्यायुर्वेदलक्षणमिति। एवमृग्वेदादीनां यथास्खलक्षणं स्वरूपत एव सिद्धं न कदाप्यन्यादृश लक्षणतया स्यात्।
इति स्वभावसंसिद्धलक्षणवप्रकारं दर्शयिता भावस्वभावनित्यवं दर्शयति-गुरुलवित्यादि। गुरुखादयो द्रव्याणां गुणाः स्वभावाः गुरुखादिगुणानां द्रव्याणां सामान्यविशेषाभ्यां वृद्धि हासौ। यथा गुरूणां सामान्येन गुरुखादिगुणेन द्धिरिति सामान्यस्य स्वभावो विशेषेण गुरूणां लघुना चिकित्सितलिङ्गम्। हेतुशब्दस्य हि द्रव्यशब्देनैव व्याधिकारणत्वेनोक्तत्वात् प्रज्ञमहेतुत्वमाह ; केचित् तु-सहेतुलक्षणमिति पठन्ति, तत्रापि हेतुशब्देन जनकः शमकश्च रोगहेतुाख्यातः ; यदि वा सुखहेतुर्भेषजं दुःखहेतुश्च निदानमिति ज्ञेयम् ; लक्षणञ्च व्याध्यारोग्ययोरुभयोरपि, एतेन दुःखं तावत् कदाचिदप्यजिहासितं न भवति, जिहासितस्यानुपायो न भवति, उपायश्चायुइँदो दुःखपरिहारार्थमुपादेयः; तस्माद दुःखप्रशमनोपायोपदेशरूपायुर्बेदस्यानादितेति भावः। एवं सुखस्य नित्योपादेयत्वं सिद्धम्, तदुपायस्यायुर्वेदस्य च ; कथमनादि सुखदुःखमित्याह-अपरापरयोगादिति सन्तानादित्यर्थः।
स्वभावसंसिद्धलक्षणत्वं द्वितीयं हेतुमाह-एष चेत्यादि । एष इति सुखदुःखाद्यर्थसंग्रहोऽभिधेयसंग्रहः एतेन आयुरादिरायुर्बेदप्रतिपाद्य इति दर्शयति ; अयञ्चायुरादिरत्रायुर्वेदलक्षणमिति विभाव्यते ज्ञायत इत्यर्थः, आयुरादिनाऽभिधेयेनायुर्वेदो लक्ष्यते, वचनं हि,-“हिताहितं सुखं दुःखम्" इत्याद्यायुर्बेदलक्षणम् ; एतेन आयुरादेस्तस्यायुर्वेदलक्षणस्यानादितया यथोक्तया स्वभावसंसिद्ध लक्षणत्वं व्याकृतं भवति ; स्वभावसंसिद्धमिति सर्वदा सन्तानन्यायेन सिद्धत्वमभिप्रेतम् ।
भावस्वभावनित्यत्वादिति तृतीयं हेतुं व्याकरोति,-गुर्चित्यादि । गुरुलघुस्निग्धरुक्षशीतोष्णानां द्रव्याणां सामान्यविशेषाभ्यां यथाक्रम वृद्धिहासौ भवतः तदेव
* अर्थसंग्रह इति वा पाठः।
। द्वन्द्वानामिति पाठान्तरम् ।
For Private and Personal Use Only