________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६४
चरक-संहिता। अर्थदशमहामलीयः अभूत् कदाचिदायुषः सन्तानो बद्धिसन्तानो वा शाश्वतश्चायुषो वेदिता। अनादिमञ्च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरनित्या कार्यनियामिका। अथेच्छया क्रियाशक्तियथाध्यवसितश्च यत् । कल्पयत्यखिलं कार्य क्षणात् सङ्कल्परूपिणी ।। इति ।
नन्वेवमेव सत्यतिनायुवेदो नित्यः, यदायुर्वेदनादायुर्बेदः, तदायुश्चोक्तं शरीरेन्द्रियसत्त्वात्मसंयोगः, स चानित्यद्रव्याणां द्वन्द्वसव्वककम्मखात् इत्याशङ्कायामाह--न हीत्यादि। हि यस्मात्। आयुषः शरीरेन्द्रियसत्त्वात्मसंयोगस्य शरीरादिकर्मजस्य सन्तानः प्रवाहो वृद्धिसन्तानो वा नाभूत् नासीत् नापरन्खासीदेव । यो यावन्तं कालं वत्तेते तद्वत्तनं जीवनं तद गायत्रया अप्यस्ति तेजोऽवन्नसंयोगाद्धि शक्तिर्गायत्री भवतीत्येवमादि, यद यस्माद महानिर्वाणात् परं भविष्यति तत्सर्वमायुष्मदेव भविष्यतीत्यायुषः सन्तानोऽभूदेवमायुषो वृद्धिसन्तानोऽप्यभूदेव हितसेवनादहितसेवनाद हाससन्तानश्च कथमन्यथा न स्यात् हितासेक्नेनायुपो हासोऽहितसेवनेन वृद्धिरिति ? तस्मादायुषः प्रमाणाप्रमाणमपि चाभूदेव । सर्वपामायुपो वेदयिता परमात्मा च शाश्वतः । सुखासुखञ्चायुरिति यस्यायुषि सुख वा दुःख तत् सुखश्च दुःखञ्चानादिमत् । यदयदेव महानिर्वाणात् परमपि पुनभविष्यात तत्तदपि सुखदुःखवद्भविष्यति नासुखं नादुःखं वा। सद्रव्यहेतुलक्षणं सुखं दुःखश्चानादिमत्। यस्मिन् द्रव्ये सुखमसुखञ्च तदनादि। युक्त्यानपाने सुखमयुक्त्यानपाने दुःखं कथम् अन्यथा न भवति युक्त्यानपाने दुःखमयुक्त्यानपाने सुखमित्येवमादि। प्रीति लक्षणं सुखं विषादलक्षणं दुःखं कथमन्यथा न स्यात् विषादलक्षणं सुखं प्रीतिलक्षणं दुःखमिति । सद्रव्यहंतुलक्षणं मुखदुःखमनादिमत् । कस्मादेवम् अनादिमत् ? अपरापरयोगात्। अपरस्य अपरेण योगोऽपरस्यापरेण योग द्वेदप्रतिप्राद्यस्य नित्यत्वम् -'न हि नाभूत् कदाचिदायुःसन्तानः,-सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, आयुर्य क्तानां प्राणिनामनुच्छेदादित्यर्थः ; एवं बुद्धिसन्तानानामपि न हि नामूद् कदाचिद्, इति योजना ; एतेन तस्यापि सन्तानेन नित्यस्यायुपो वेदनमपि नित्यम् ; 'शाश्वतश्वायुषो वेदिता' इत्यनेनायुर्वेदवेदितृनित्यत्वमुक्तम् । एतेन वेद्यवेदनवेदितणामनादित्वादायुइँदस्य नित्यत्वम् ।
न चायुःस्वरूपेणैवायुर्वेदविपय उक्तः, किं तर्हि, रोगादिगृहीतेनेत्याह- अनादि चेत्यादि। सुखदुःखमिति, आरोग्र सुखं व्याधिईःखम् । सद्व्यहेतुलक्षणमिति, सद्रव्य.
* अनादि च इति वा पाठः।
For Private and Personal Use Only