________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६२
चरक-संहिता। अर्थदशमहामूलीयः स्वभावसिद्धलक्षणत्वात् भावस्वभावनित्यत्वाच। न हि नैव विशिष्टक्षेत्रशः कालानुपविष्ट एकं सदव्यक्तं नाम वभूव। ततोऽव्यक्तान्महदादित्रयोविंशतिस्तत्त्वानि जातानि, तदव्यक्तादिचतुर्विंशतितत्त्वमयमिदं जगदभूदित्यव्यक्तायं तदन्तं सर्वमनृतं सत्यं त्यदुच्यते। परमार्थतोऽनृतं लोके सत्यमित्यनृतसत्यमिति निलयनादेतदन्तं सव्वं सत् परमात्मानुप्रवेशात् सत्यमित्याचक्षते तत्त्वविदः, इत्येवं व्याख्यातं वायवीये। तद् यथाशक्तिः प्रथमसम्भूता गायत्री सा पदोत्तमा । चतुव्य हस्ततो देवः प्रोच्यते परमेश्वरः। तच्छिवस्य शिवायाश्च साम्यञ्चैतत् स्वभावतः। शिवयोव वशे विश्वं न विश्वस्य वशे शिवो। यथा शिवस्तथा देवी यथा देवी तथा शिवः । नानयोरन्तरं विद्याचन्द्रचन्द्रिकयोयथा। चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना। न भाति विद्यमानोऽपि तथा शक्तया विना शिवः । शक्तो यया शिवो नित्यं शक्ती मुक्तौ च देहिनाम्। आधा सैका परा शक्तिश्चिन्मयी शिवसंश्रया। यामाहुरखिलैस्तस्य तैस्तैरनुगुणैर्गुणैः। समानधम्मिणीमेव शिवस्य परमात्मनः। शिवेच्छया परा शक्तिः शिवतत्त्वकतां गता। ततः परिस्फुरत्यादी सर्गे तैलतिलादिवत् । ततः शिवाख्या या शक्तिः शक्त्या शक्तिसमुत्थया। तस्यां वै क्षोभ्यमाणायामादौ नादः समुद्गतः। नादाद विनिःसृतो बिन्दुबिन्दोदेवः सदाशिवः। ओङ्कारमूत्तिस्तत्रासीदोमित्येव ध्वनिस्तु यः। सैव माहेश्वरी देवी शुद्धविद्या महोदया। सा वाचामीश्वरी शक्तिर्वागीशाख्या तु शूलिनः। या सा वणेस्वरूपेण मातृकेति विजम्भते। अथानन्तसमायोगान्मायां कलामवासृजत् । नियतिञ्च कलाविद्या कालञ्च गुणपूरुषो। मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् । त्रिगुणाततोऽव्यक्ताद विविक्ताः स्युस्त्रयो गुणाः। सत्त्वं रजस्तमश्चेति यैव्याप्तमखिलं जगत् । गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशात् तु त्रिशूलिनः। अभवन्महदादीनि तत्त्वानि तु यथाक्रमम् ॥ इत्यादि । इत्येवं गायत्रीपरमात्मभ्यां मिलिताभ्यां विद्यादीनामुत्पत्तिश्रवणाद वेदो न नित्य आदिमत्त्वादिति । तत्रोच्यते । स्वभावसंसिद्धलक्षणखात। इति। सोऽयमायुर्वेदः शाश्वत एव चतुर्थपादगायत्रीविशिष्टत्रिपातपुरुषाच्चतुष्पादब्रह्मणः प्रादुभूतोऽपि वेदो नाशाश्वतः स्वभावसंसिद्धलक्षणखात्। लक्षणं ह्यायुर्वेदस्य हिताहितमुखदुःखायुषस्ततप्रमाणाप्रमाणइह व्यवहारनित्यत्वमायुर्वेदे साध्यम्, तच्चार्थरूपस्यायुर्वेदस्य, न शब्दरूपस्य ; किंधा
For Private and Personal Use Only