________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम्।
११६१ प्रशमनम्। सोऽयमायुर्वेदः शाश्वतो निदिश्यतेऽनादित्वात्
गङ्गाधरः---अथायुर्वेदः शाश्वतोऽशाश्वतो वेति प्रश्नस्योत्तरमाह-सोऽयमायुवेद इत्यादि। स य आयुव्वेदयति स्वलक्षणतः सुखासुखतो हिताहिततश्च तस्य हिताहितञ्च यत्रोपदिश्यते स तथाविधायुष उपदेशोऽयमायुर्वेदः शाश्वतो निद्दिश्यते नित्य उच्यते। कस्मात् ? अनादिखात्। आदिः कारणमुन्पत्तो कारणाभावादुत्पत्तिविनाशाभावात् । शाश्वतः शश्वद्वर्तते। अनादिखादादिमत्वाभावात्। ननु श्रूयते वेदस्यादिः गायत्री तद्विशिष्टश्च परः पुरुषः । तद यथा तैत्तिरीयोपनिषदि--असद्वा इदमग्र आसीत् ततो वे सदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते। अस्यानुवाकस्तत्रैव । उ सोऽकामयत बहु स्यां प्रजायेयेति, स तपोऽतप्यत स तपस्तप्ता समसृज्यत यदिदं किश्च । तत्सर्व सृष्टा तदेवानुमाविशत् । सञ्च त्यच्च निलयनश्च निरुक्तश्च अनिरुक्तञ्च विज्ञानञ्चाविज्ञानञ्च सत्यञ्चानृतञ्च सत्यमभवत्। यदिदं किञ्च तत्सर्व सत्यमित्याचक्षत इति। तत्र प्राक् सदिका शक्तिरासीत् तदब्रह्म तदा क्रियागुणव्यपदेशाभावात् तत् सदेवासदुच्यते। तदसत् प्रथमं तेजोऽसृजत तदपस्ता अन्नमिति तेजोऽवन्नविशिष्टा सा शक्तिः प्रथमं लोहितशुक्लकृष्णवदाभासाऽतिमुक्ष्मध्वन्यवरुद्धातिसूक्ष्मपरव्योमरूपा गायत्री बभूव सा सत्। ततः परव्योमरूपः पर आत्मा शिवो बभूव । स एवाकामयत । स सत् त्यत् सृष्ट्वा तदनुपाविशदिति। अत्र सत्-त्यत्-पदार्थविवरणम्। निलयनं यस्य यत् स्थानं सत् । यस्य यदस्थानं तदनिलयनं तत् त्यत् । निरुक्तं प्रणवः अकार उकारः मकारोऽमात्रा इति निक्वेचनं सत् । तदोङ्कारविजम्भिता अकारादयो मातृकावर्णाः अनिरुक्तं त्यत् निव्वेचनाभावात् । विज्ञानं विद्या विद्याश्रयः सदाशिवः पञ्चमो ब्रह्मपुरुषः। सत। अपरा विद्या तदाश्रयाश्चत्वारः साङ्गा वेदा अविज्ञानमविद्या तत् त्यत् । तत्र विद्या त्रिधा भूखा अथव्ववेदश्च त्रिधा भूखा ऋग्यजुःसामसु प्राविशत् ततस्त्रयी बभूव । सा सद्रपं भूखैकांशे कालो नाम महाविष्णुभूवापरांशेन चिद्धभूव तस्य चितः सम्प्रसादांशः क्षेत्र आत्मा पुरुषो विष्णुगुणांशः प्रधानं नाम ब्रह्मा, त्रयमेतत् सत्यं तत् सत् । तत एतत्तयमेकीभवागुणाभिव्यक्तौ तद्गुणस्य प्रसादांशः सत्व. गुणो मलिनांशस्तमोगुणो मध्यमांशो रजोगुणो बभूवेति, समसत्त्वरजस्तमो
चक्रपाणि-अनादित्वादिति हेतुत्रयमात्रात् ; प्रथमस्य विवरणम्-'न हि' इत्यादि ।
For Private and Personal Use Only