________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः
सूत्रस्थानम् ।
११२६ ....-मेदःसंश्रयांस्तु प्रवक्ष्यते। निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥ अध्यस्थिदन्तदन्तास्थि-भेदशूलं विवर्णता। केशलोमनखश्मश्रु-दोषाश्चास्थिप्रकोपजाः ॥ मूनिमोऽसत्तमसो दर्शनं पर्वणाञ्च रुक । अरुषां स्थूलमूलानां पर्वजानाञ्च दर्शनम् ॥ मजप्रदोषात् ----------------------------॥
~-~-शुक्रस्य दोषात् क्लैब्यमहर्षणम् । रोगिणं क्लीवमल्पायुर्विरूपं वा प्रजायते ॥ न चास्य जायते गर्भः पतति प्रस्रवत्यपि ।
शुक्र हि दुष्टं सापत्यं सदारं वाधते नरम् ॥ ६॥ रोगान् विद्यात् । ३ । मेदःसंश्रयांस्तु रोगान् यानि निन्दितानि अतिस्थूललिङ्गानि यानि च प्रमेहाणां पूवरूपाणि तान् विद्यात् । ४ । अस्थिप्रकोपजा अध्यस्थ्यादयः; अध्यस्थि अधिकास्थि ; अधिदन्तश्च । दन्तभेदो दन्तशूलम् अस्थिभेदोऽस्थिशूलं केशादीनां दोषश्चेति । ५। मज्जप्रदोषात् तु मूर्छा च भ्रमश्चासत्तमोदर्शनश्च पवेणां रुक् च पव्वेजानां स्थूलमलानामरुषां व्रणानां दर्शनश्च भवति। ६ । शुक्रस्य दोषात् क्लव्यश्च अहणश्च व्यवायार्थ शेफसोऽनुद्गमः स्यात् । यदि वा व्यवायशक्तिवेत्तेते तदा स शुक्रदोषाद्रोगिणं क्लीवमल्पायुविरूपं वापत्यं प्रजायते। न चास्य शुक्राद गर्भो जायते, जातो वा गर्भः पतति प्रस्रवत्यपि। कुत एवं स्यादत उच्यते। शुक्र हीत्यादि। हि यस्मात् दुष्टं शुक्रं सापत्यं सदारं पुमांसं बायते ॥६॥ कीलशब्देनाऽत्रार्श उच्यते। निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि तेपामेव निन्दितत्वात्, न स्वास्थवरस्पमधुरत्वादानि, किंवा निन्दितानाति अतिस्थूलगतान्यायुर्हासादीनि अष्टोनिन्दितीयोक्तानि, तेपाच निन्दितत्वं निन्दितातिस्थूलत्वेन ; एवं पूर्वस्मिन् व्याख्याने “यानि च इति 'च'कारी नियमे, उत्तरव्याख्याने चः समुच्चये। अध्यस्थिदन्तशब्देन मध्यस्थ्यधिदन्तयोम्र हणम्, शूलमध्यस्थिशूलमेव बोद्धव्यम् । मूछेत्यादि मजदोषाज ज्ञेयम् । भरूषीति व्रणानि। क्तव्यमिति ध्वजानुच्छायः ; अहर्पणञ्च सत्यपि ध्वजोत्थाने मैथनाशक्तिः,
For Private and Personal Use Only