________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
चरक-संहिता। [दीर्घजीवितीयः समवायिकारण भवदपि न कर्माश्रय इति। कालखात्मदिशां कर्माश्रयखाभावेऽपि गुणाश्रयखाद, द्रव्यसमिति। आश्रयः समवायिकारण द्रव्यमित्युक्तौ बाश्रयाश्रितखनियमाप्राप्तौ समवायिनां खादीनामाश्रयवं शब्दादीनां कर्मणश्चाश्रितखमित्युपदेशार्थ कर्मगुणा इति स्फुटमुक्तमित्येके यदव्याचक्षते, तदपि प्रायेणानपवादं, परन्तु शब्दादिसमवाययोगिखमाकाशादीनां प्रसिद्धमस्ति। कार्यन्तु यत् पुरुषघटादिकं तत्राकाशादीनां शब्दादीनाञ्च कर्मणश्च समवाया दृश्यन्ते न ह्याकाशादिषु शब्दादीनां यः समवायः स पुरुषघटादिकायें पूर्वमेव हि शब्दादिमत्तयाऽऽकाशादीनां प्रसिद्धिरस्ति । तस्मात् समवायिकारण द्विविधं प्रधानमप्रधानञ्च, तयोपिनाथमाह। यत्रेत्यादि, सर्वमन्यत्तुल्यमित्यपरे। अत्राप्याहुरन्ये उपदेशार्थलक्षणे साधाराधेयखख्यापनायाधिकपदोपादाने गौरवं भवति तथा कानाश्रयतेऽपि गुणाश्रयखेनात्मकालव्योमदिशां द्रव्यखवत्कर्मानाश्रयत्वेऽपि परखादिगुणाश्रयत्वात् शब्दादीनां कर्मणश्च द्रव्यत्वापत्तिः स्यादिति ; तस्मादेवं व्याचक्षते। कम्मलक्षणे वक्ष्यमाणस्य कर्त्तव्यस्येत्यस्यात्रान्वयात् कारणमित्युक्तवार्थादेव लब्धस्य कार्यस्येति बोध्यम्। __समवायीति-समवैतु' शीलमस्येति तत् समवायि, विलक्षणानेक यथायथं खादिकं तच्छब्दादिकं तत्कर्म च तच्छब्दादस्तत् कम्मेणश्च परखादिकं यदेतत् सर्च मिलिखा परिणम्य कार्यत्वेनैकीभवितुं शीलं यस्य, खादि-शब्दादि-स्पन्दन-तत्तदीयं परखादि यावत्तत् समवायि । तच्च द्विविध-कर्तृ भूतखेन मुख्यम् अकत्ते भूतखेन गौणम् ; तत्र मुख्यस्य गौणाद. व्यावृत्तार्थमाह यत्रेत्यादि। यस्य काय्यस्य यद्यत् समवायि कारणं खाद्यादिकं तेषु मध्ये तस्य कार्यस्य समवायिकारणभूतं कर्म समवायिकारणभूताच गुणा यत्र समवायिकारणे आश्रिता एव न खनाश्रिताः समवायेन वर्तितु योग्यास्तत् समवायिकारणं तस्य कार्यस्य द्रव्यमित्यर्थः । यथा घटादौ पुरुषादौ च खादिनवकम् । कर्म च गुणाश्च परखादिगुणाश्रया अपि न कदाप्यनाश्रिता नियमतो यथायथं खादित्तिकवात् ततः कर्मगुणाश्च न द्रव्याणि भवन्ति । खात्मकालदिशां गुणाश्रयखात् मनोवाय्वादि
चाकारणेभ्यः सामान्यविशेषसमवायेभ्यो व्यावृत्तिः सिद्धा। कारणत्वन्तु विभुद्रव्यपरिमाणान्त्यावयविरूपादिषु लक्षणीयेषु गुणेषु नास्ति, तेन भागासिद्धं लक्षणं स्यात्, अतः कारणत्वेनेह
For Private and Personal Use Only