________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दीर्घञ्जीवितीयः यः स्थविष्ठो भागस्तन्मलं, यो मध्यमस्तन्मांस, योऽणिष्ठस्तन्मनः। अन्नमयं हि सौम्यमन इति वेददर्शनात् । तन्न, सा हि श्रुतिर्जातोत्तरकालम् आहारांशेन मनःपोषणवचना न खारम्भकवचना इति। अथ क्रियावद्वा गुणवद्वा समवायिकारण वा द्रव्यमित्युक्तो घटादिसमुदायस्य क्रियागुणाश्रयखात् स्वस्मिन् द्रव्यत्ववारणाय समवायिकारणमिति वक्तव्यं, न क्रियावन्मानं द्रव्यं खात्मकालदिशाश्च क्रियावत्त्वाभावात्। समवायिकारणमिति न द्रव्यं गुणानां वारणाय कम्मे ति। संख्यापरिमाणपृथक्त्वपरखापरखगुणाः द्रव्येषु गुणेषु कम्मसु च वर्तन्ते, तेन गुणवद द्रव्यमिति न भवति । कश्रियसमवायिकारण द्रव्यमित्युक्तो कर्मशब्देन जायमानकर्मणोप्राप्तिः खात्मकालदिक्षु क्रियावत्त्वाभावान्न तेषां द्रव्यवं स्यात् । गुणवत् समवायि कारण द्रवयमित्युक्तौ संख्यादिगुणवत्त्वाद गुणकर्मणोद्रव्यत्वप्रसङ्गः । इत्थञ्च द्रव्यत्वं कमगुणाश्रयत्वसमवायिकारणत्वोभयरूपमेवेत्याहुरेके। परे तु कर्मणा सहिता गुणाः कर्मगुणाः, न तु कर्म वा गुणा वा ; तेन परत्वादिगुणानां कम्मेणा सहितत्वासहितत्वस्वभावेन समवायिकारणत्वेऽपि तदाश्रयत्वेन न द्रवयवं कर्मरहितवं कर्मसहितखमात्रस्वभावगुणरहितत्वं कर्मवतामेव कर्मसहितत्वस्वभावगुणवत्त्वं न त्वन्यस्येति ख्यापितं भवति। तथा च शब्दादीनां गुर्वादीनां बुद्धेः प्रयत्नान्तानाञ्च गुणानां कर्माण्यत्तित्वात् कर्मरहितत्वमात्रस्वभावानां कर्मारहितानामाश्रयत्वं खात्मकालदिशाञ्चोपचारिककर्मवत्त्वेन शब्दाद्याश्रयत्वम् । कर्मासहितत्वासहितत्वस्वभावानां परत्वादीनान्तु द्रव्यगुणादिषु सर्वत्रैव वृत्तिर्न च सा नियम्यत इति । कारण कारयति, क्रियाहेतुः, कारण येन विना यन्न भवति, तस्य तत्तद भवति ; तच्च त्रिविधं-जनकमा समवायि चेति, तद द्विविधं निमित्तम् ;समवायिकारणन्तु तत् यत् खादिकं शब्दादयः कर्म च । शब्दादिगतपरत्वादिक कर्मगतश्च परत्वादिकं तदेतत् सर्व यथायथं मिलित्वैकत्वेन परिणमत्यतः कार्यरूपं विशिष्टापूर्वमेकं भवति तत्तत्सर्वं तस्य कार्यस्य समवायिकारण यथातथं भवति ; सुतरां द्विविधं समवायिकारणं भवति । एकं समवायानुयोगिरूपं. द्वितीयं समवायप्रतियोगिरूपं तयोर्मध्ये खेकस्मादपरं विशेषयति ।
गुणलक्षणमाइ समवायीत्यादि।-समवायीति समवायाधेयः ; तेन व्यापकद्रव्येभ्यो , निष्क्रियेभ्य आकाशादिभ्यो गुणब्यावृत्तिः, न ह्याकाशादयः समवायाधेयाः ; निर्गतश्चेशायाः
For Private and Personal Use Only