________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१२ चरक-संहिता।
( अन्नपानविधिः मधुरो वृहणो वृष्यो बल्यो मजा तथा वसा । यथासत्त्वन्तु शैत्यौष्णे वसामजज्ञोबिनिदिशेत् ॥५॥ स्नेहनं दीपनं वृष्यमुष्णं वातकफापहम् । विपाके मधुरं हृद्य रोचनं विश्वभेषजम् ॥ श्लेष्मला मधुरा चार्टा गुर्वी स्निग्धा च पिप्पली। सा शुष्का कफवातघ्नी कटूष्णा वृष्यसम्मता ॥
. गङ्गाधरः- इति तलमुक्त्वा मज्जानं वसाश्चाह-मधुर इत्यादि। मज्जा मधुरादिगुणः तथा वसा च मधुरादिगुणा। तयोवेसामजज्ञोः शैत्योष्ण्ये यथासत्त्वं यस्य सत्त्वस्य जन्तोर्यो मज्जा या वा वसा तस्य शैत्यं चेच्छैत्यं विनिद्दिशेदौष्ण्यं चेदोष्ण्यं विनिहिशेत् । सुश्रुते च-ग्राम्यानूपौदकानाश्च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः। जाङ्गलैकशफक्रव्यादादीनां लघुशीतकपाया रक्त. पित्तनाः। प्रतुदविष्किराणां श्लेष्मनाः। तत्र घृततैलवसामेदोमज्जानो ययोत्तरं गुरुविपाका वातहराश्च । इति ॥ ५९॥ - गङ्गाधरः-आहारयोगिस्नहानुक्त्वा शेषानाह-स्नेहनमित्यादि । विश्वभेषजं शुण्ठी। सुश्रुते च-नागरं कफवातघ्नं विपाके मधुरं कटु । वृष्योष्णं रोचनं हृद्य सस्नेह लघु दीपनम् ॥ इति । श्लेष्मलेत्यादि । आः पिप्पली श्लेष्मलेत्यादिगुणा। सा पिप्पली शुष्का कफवातघ्नीत्यादिगुणा। सुश्रते च-पिप्पली. मरिच शृङ्गवेराद्र क-हिङ्गजीरक-कुस्तुम्बुरु-जम्बीरक-सुमुख-सुरसाज्जेक-भूस्तृण. सुगन्धक कासमद्देक कालमालकुठेरकक्षवक-खरपुष्प-शिग्र-मधुशिग्रु-फणिज्झकसषेप-राजिका-कुलाहलवेणु गण्डीर-तिलपणिक--वर्षाभू-चित्रकमूलकपोतिकालसुन-पलाण्डुकलायप्रभृतीनि। कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च । कुतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा। तेषां गुर्वी स्वादुशीता पिप्पल्या
चक्रपाणिः-यथासत्त्वमिति, यः प्राणी आनूपादिरुष्णस्तस्योष्णः, यस्तु प्राणी जागलादिः शीतस्तस्य शीत इत्यर्थः ; सामान्य तस्तु वसामजज्ञोरनुष्णाशीतत्वं यथा भवति तथा स्नेहाध्याये एवम् प्रोक्त ॥ ५९॥
For Private and Personal Use Only