________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह८
चरक-संहिता। [ दोर्घजीवितीयः एव नव खादयो भावा द्रव्याणि भवन्ति। न च ते जायमानाः कर्म गुणाः खस्योपादानकर्मगुणानाश्रयन्ति । नापि ते तत्तत्कर्म गुणानामुपादानभूताः कर्म गुणा जायमानकर्मगुणानाश्रयन्तः कार्ये समवयन्ति। सामान्यविशेषौ तु सत्ताख्यो समवायरूपौ द्रव्येषु गुणेषु कर्मसु यावन्तौ तावन्तौ तेषामेकखपृथक्वकरौ न जायमानकर्मगुणानाश्रयन्ती कार्ये समवयतः ( ?) न चैवं समवायश्च एकखपृथक्त्वमेलकखकारणत्वेऽपि समवायिकारणवाभावादेषां न द्रवयत्वम्। अस्तु क्रियावत् समवायि कारणं द्रवयमिति किमर्थ गुणेति ? वायवादीनां कर्माणि यदा चिन्त्याचिन्त्यक्रियाहेतुकण्यिारभन्ते तदा तान्यप्येकीमूय यत्कर्मरूपेण परिणम्यन्ते तत्कर्म तत्तदुपादानकर्मवदेव भवति । तदुपादानक्रियावत् सत् कर्मसमुदायात्मके काये नरादौ चिन्त्याचिन्त्यक्रियायां कारणं समवैति । यथा खाद्यारब्धखादीनि शन्दाद्यारब्धशब्दादयश्च समुदाये कार्य तन्नरादौ, शारीरावयवादिकारणानि समवयन्ति। तदुपादानक्रियावत्कर्मवयात्तार्थ गुणेति। गुणाश्रयत्ववचनेन जायमाना गुणाः कारणपदेन ख्यापितास्तद गुणसमभिवयाहारेण कर्मग्रहणात् कापि जायमानं ख्यापितं न तूपादानभूतं कर्म प्राप्यते । गुणशब्दानुपादाने क्रियावत् समवायिकारणमितिमात्रोक्तो तु न जायमानक्रिया प्राप्यते । काव्ये यत् कारणं क्रियावदित्येवमात्र प्राप्यते तच्च तदुपादानीभूतक्रियावत् कापि भवति। यत्कारणं कार्यमारभमाणं गुणमाश्रयत् समवैतीत्युक्तौ हि स्वस्वगुणवत्त्वसिद्धौ सत्यां तत्तद गुणापायासम्भवात् पुनर्गुणवद्वचनं वयर्थमिति कार्यारम्भे जायमानगुणा एव प्राप्यन्ते .तत्समभिक्याहारेण निर्देशात्, कर्मापि कार्यारम्भे जायमानं गृह्यते न तु प्राक्सिद्धं कर्म गृह्यते। प्राक्मसिद्धकर्मग्रहणे खात्मकालदिशां क्रियाभावान्न द्रवयत्वं स्यादिति । अस्तु तर्हि गुणवत् समवायि कारणं द्रव्यमिति। नैव भवति । यत् कारण गुणवत् सत कार्ये समवैति तद द्रव्यमिति हि प्राप्यते । गुणाश्च काणि च गुणान्तरं सजातीयमारभमाणा मिलिबँकखमाश्रयन्तः कार्ये समवयन्ति। यथा खादिभिरारभ्यमाणे काय्ये तेजोऽम्भूमिषु सिद्धा लोहितशुक्लकृष्णवर्णाः सजातीयानि लोहितशुक्लकृष्णरूपाणि आरभमाणा
व्यावृत्तिमात्रलक्षणकथनं, न तु स्वजातीयव्यापकविजातीयव्यावर्त्तकलक्षणकथनम् ; येन कर्मसमवायो नाकाशादीनां वर्त्तते, तेन लक्षणानुगतं विजातीयव्यावृत्तं द्रव्यस्य लक्षणं गुणवत्त्व
For Private and Personal Use Only