________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८६
चरक-संहिता। | अन्नपानविधिः सूप्यान्नविकृता भक्ष्या वातला रुक्षशीतलाः। सकटुस्नेहलवणान भक्षयेदल्पशस्तु तान् ॥ मृदुपाकाश्च ये भक्ष्याः स्थूलाश्च कठिनाश्च ये। गुरवस्तेऽप्यतिक्रान्त-पाकाः पुष्टिबलप्रदाः॥ द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक तथा । भक्ष्याणामादिशेद बुद्धा यथास्वं गुरुलाघवम् ॥ नानाद्रव्यसमायुक्तः पत्तवा वहिषु भर्जितः ।
विमईको * गुरुह यो वृष्यो बलवतां हितः॥५३॥ जीयेन्ति भिन्नवर्चसश्च भवन्ति इति। सुश्रुते च-पृथुका गुरवः स्निग्धा टहणाः कफवद्धनाः । बल्याः सक्षीरभावात् तु वातना भिन्नवच्चेसः ॥ इति। सक्षीरभावादपरिणतातेधान्यकृताः पृथकाः सक्षीरखात् वातना भिन्नवच्चेसश्च भवन्ति । मूप्यान्नेत्यादि । ये मूप्यविकृताः शमीधान्यविकृता भक्ष्या भृष्टमुद्गचणकादयो भृष्टताडुलादयश्च अन्नविकृताः शूकधान्यविकृताः भक्ष्याश्च ते वातला रुक्षशीतलाश्च। तान् मरिचादिकटुतैलादिस्नेहसैन्धवादिलवणयुक्तानल्पशो भक्षयेत् । मृदुपाकाश्चेत्यादि । ये मूप्यान्नविकृता भक्ष्याः स्थूलाः कठिना मृदुपाकाश्च भवन्ति ते गुरवः। व्यतिक्रान्तपाकाः खरपाकाः स्थूलाः कठिनाश्च ते पुष्टिबलप्रदा भवन्ति। उपसंहरति-द्रव्येत्यादि। यद्रव्यये भक्ष्या भवन्ति तेषां भक्ष्याणां द्रव्यसंयोगं संस्कार द्रव्यमानश्च पृथक् बुद्धा यथास्वं गुरु लाघवश्च बुद्धा गुरु लाघवमादिशेत् । सुश्रुते च-द्रव्यसंयोगसंस्कार-विकारान् समवेक्ष्य तु। यदा कारणमासाद्य भोक्तृणां छन्दतोऽपि वा। अनेकद्रव्ययोनिखाच्छास्त्रतस्तान विनिर्दिशेत् । इति ॥ ५३॥ संपिष्टसंज्ञानाहुः, सरसा अभृष्टाः। सूप्यविकृता इति मुद्गमाषादिविकाराः। मृदुपाकाः स्तोकाग्निसंयोगसाध्याः ; व्यतिक्रान्तपाका इति चिरेण जरां गच्छन्ति । अनुक्तगुणातिदेशार्थमाहद्रव्यसंयोगेत्यादि। द्रव्यमानं पृथगिति भक्ष्यकरणे संयुक्तानां मध्ये कस्य कियन्मानमिति बुद्धा ; यथास्वमिति यस्य द्रव्यस्य गौरवं लाघवं वा बलवद्वति तं निर्दिशेत् ॥ ५३ ॥
• "नानाद्रव्यैः समायुक्तः पक्कामक्लिन्नभर्जितैः। निमईकः" इति चक्रभृतः पाठः ।
For Private and Personal Use Only