________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का
चरक-संहिता।
दीर्धीवितीयः यत्राश्रिताः कर्मगुणाः कारणं समवायि यत् ।
तद्रव्यं समवायी तु निश्चेष्टः कारणं गुणः ॥ २३॥ प्रकारेणाभावप्रत्ययेन अघटो गौघटाभावो गौरधर्मश्च गोधाभावो गौः परश्चातः। अतो गोः परो घटो गवाभावो घट। तथा धर्मश्च गोः पर इति गवाभावो धर्म इति प्रतीतिः। एवं सति निविशेषेण प्रयोगे भावमात्रतया प्रतीतिः। यथा गौरिति गोखजातिविशिष्टसास्नादिमन्नीलपीतादिनिखिलद्रव्यविशेषो गौरिति भावतया प्रतीतो, नीलो गौरिति तद गोसामान्यात् पृथक क्रियते नीलो गौरिति तन्नीलातिरिक्तगवप्रतिषेधे नीलगवाभावः पीतादिगव', पीतादिगवाभावो नीलगव इत्येवं सव्वमभावो भावेष्वितरेतराभावसिद्धेरिति समम् ॥ ८॥ अत्र प्रश्नः। कथमन्यश्चास्तम्भश्च ।।९॥ न स्तम्भोऽस्तम्भस्तम्भाभावः कथमन्यश्च स्तम्भाभावादन्यश्च। स्तम्भाभावो. घटादिघटाद्यन्यश्च स्तम्भ इति। भावेवितरेतराभावसिद्धः ॥९॥ एवमव्यतिरेकप्रतिषध अभेदाख्यसम्बन्धाभाव दर्शयित्वा प्रागभावमुदाहरति। अभूतं नास्तीत्यनर्थान्तरम् ।। १०॥ यन्नाभूत् तन्नास्तीति पागभावः । यन्नास्ति तन्नाभूदिति तुल्योऽर्थः ॥१०॥ अवयतिरेकप्रतिषेधे प्रत्ययसामानाधिकरण्यसम्बन्धाभावमुदाहरति। नास्ति घटो गेह इति सतो घटस्य गेहसंसर्गप्रतिषेध इति। अस्तिपदसमानाधिकरणो घटः कर्त्त पदं गेह इत्यधिकरणपदं कारकखार्थ, गेहे घटोऽस्तीति प्रसज्य प्रतिषिध्यते नेति गृहे घटस्य सतो भावस्य संसर्गस्य प्रतिषेधो विभाग इति सर्वमभावो भावेवितरेतराभावसिद्धरित्यनेन सममिति । पृथक्वाभावः समवायः समवायाभावः पृथक्वमित्यविरोधोऽतः कथमभावोऽतिरिक्तोऽस्तीति नाभावः सप्तमः पदार्थ इति। अनयैव रीत्या घटवति भूतले समवायेन घटो नास्तीत्यादावपि सर्वत्र समान्वयः। इति व्याख्यातः समवायः ।। २२॥
गङ्गाधरः---अथोदिष्टानां सामान्यादीनां पप्णां सामान्यविशेषसमवायानां सलक्षणं निई शं कृत्वा द्रव्यगुणकर्मणान्तु निर्देशमात्र कृत्वा क्रमेण लक्षणान्याह, यत्राश्रिता इत्यादि । -इह कारणमित्युक्तया कार्यामिति
चक्रपाणि:--द्रव्यलक्षणमाह, यत्र त्यादि । --यत्राश्रिता यत्र समवेताः, कर्म च गुणाश्च कर्मगुणाः । कारणं समवाथि यदिति --समधायि कारणं यत, द्रव्यमेव हि द्रव्यगुणकर्मणां सम
For Private and Personal Use Only