________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
६५
1
इति । भाष्याणि चैषां क्रमेण । क्रियागुणव्यपदेशाभावात् प्रागसत् । यद्वस्तु यद्र पेण भविष्यति तद्वस्तु स्वस्वरूपेण सदपि भाविस्वरूपस्य क्रियागुणव्यपदेशाभावान् प्राग्भाविनोऽसदुच्यते । यथा । असद्वा इदमग्र आसीत् ततो वै सजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते । इति तैत्तिरीयोक्तम । इदं सर्व्वमग्रे प्राक् सर्गादसदेवासीत् ततोऽसतः सर्गकाले सदजायतेति । क्रियागुणव्यपदिष्ट तेजोऽवन्नलक्षणा गायत्री अजायतेति । न चानुपादानकं वस्तुत्पद्यते । तस्मात् ॥ १ ॥ सदसत् ॥ २ ॥ प्राक् सर्गाद यदासीत् तत् सदेवासत् ॥ २ ॥ कस्मात् ॥ ● ॥ असतः क्रियागुणव्यपदेशाभावादथान्तरभावात् ।। ३ ॥ सतः क्रियागुणव्यपदेशो यस्तक्रियागुणव्यपदेशाभावः प्राक् तदुत्पतेरित्यर्थान्तरत्वम् । यथा मृदादिस्वरूपेण यद्वस्तु तत् घटादिरूपेणोत्पत्तेः पूव्वं घटादिक्रियागुणव्यपदेशाभावादसत् घटादिरूपेण सद्भिन्नमित्यतः ॥ ३ ॥ सच्चासन् ॥ ४ ॥ मृदादिरूपेण सदपि घटादिस्वरूपेण प्रागसत् । तच्च घटादिकं सदस्य सन्मृदादिसतोऽभावः ॥ ५ ॥ कथम् ॥ ० ॥ यच्चान्यदसदतस्तदसत् ।। ५ ।। सतो घटादेरन्यन्मृदादिकमसत् । अतोऽसत एव सतो मृदादिकादन्यद घटादिकमसदभावः इत्यर्थः । उपादानाभाव उपादत्त उपादत्ताभाव उपादानम । मृदाभाव घटादिकं घटाद्यभावो मृदादिकम् । अनश्वो गौरश्वाभावो गौरगौरव गवाभावोऽश्व इति स्वेन रूपेण स्वभावेन भावेष्वितरेतराभावसिद्धः सवयमेव वस्तु खलु भावोऽभाव इति ॥ ६ ॥ कथमसदिति प्रतीयत इत्यत आह । असदिति भूतप्रत्यक्षाभावाद्भतस्मृतेर्वि रोधिप्रत्यक्षत्वात् ॥ ० ॥ अनश्वे गवि त्वाभावेऽदिति अश्वाभाव इति प्रतीतिर्भूतमत्यक्षाभावात् । इदमग्रे ऽसदेवासीदिति अतीतस्यासतः प्रत्यक्षाभावात् । भूतस्मृतेविरोधिवर्त्तमानस्य प्रत्यक्षत्वात् । अश्वप्रत्यक्षाभावेऽप्यश्वस्मृत्या अश्वाभावो गौरिति प्रत्यक्षत्वात् । विरोधि चोक्तं भूतमभूतस्य अभूतं भूतस्य भूतं भूतस्येति ॥ ६ ॥ कथं भविष्यतः प्रागभावप्रत्यक्षमित्यत आह । तथा भाविभावप्रत्यक्षत्वाच्च ॥ ७ ॥ तथा भाविभावस्य प्रत्यक्षाभावात् । भाविभावस्मृतेविरोधिनः प्रत्यक्षवाच्चासदिति प्रतीतिः । भविष्यतो घटस्य प्रत्यक्षाभावात् । तदुपादानसामग्रीणामायोजने भाविघटस्मृतेस्तत्सद्भावाभावो विरोधी समवायिकारणकपालमालानां विभागोऽयोगो वा प्रत्यक्षमुपलभ्यते तदुपालम्भादसदिति घटप्रागभाव इति प्रतीतिः ॥ ७ ॥ एतदुदाहत्तुमाह । एतेनाघटो गौरवश्च व्याखातः ॥ ८ ॥ एतेनेत्युक्त
For Private and Personal Use Only