________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४
चरकसंहिता।
सामान्य वद्विद्रव्यं विशेषबच्च। पारिशेष्यात् सम. वायः। शेषवदनुमानं परिशेषः। विविधमनुमानमुक्तं पूर्ववच्छषवत् सामान्यतो दृष्टञ्च। तत्र शेषः परिशेषः कारण प्रदर्शनेनानुपपत्तिवचनेन यत् प्रतिषेधादप्रतिषिड्वं यत्परिशिष्यते तत्पारिशेष्यादनुमीयते। तच्च शेषवदनुमानम्। द्रव्य गुणकर्मणां सत्तात्व प्रतिषेधात् परिशिष्यते समवायः सासत्तेत्यनुमीयते। समवायाविसदिति द्रव्य गुणकम्पसु प्रतीयते । यावट्वि समवायिकारणानां समवायोवर्तते तावद्रव्यं सदिति प्रतीयते गुणः सन्त्रिति कर्म च सदिति । सैव द्रव्यगुणकर्मणामनुत्तेहेतुः। समवायाभावाद् द्रव्य गुणकर्मणां नाशः । समवायि कारणानां समवायाभावः पृथक त्वमयोगो यदा स्यात् तदा नश्यतीति दृश्यते नास्तीत्यच्यते । समवायोऽस्ति चेति किं सत्तावान । न सत्तावान समवायः स्वरूपेण सझावात् सत्तान्तरवत्त्वाभावात् । न हि समवायेन सयवायो द्रव्य गुण कर्मसुवर्त्तते । तेषु उत्तौ समवायस्य वस्वन्तराभावात् । खरू पेणैवत्तेः । नित्यानित्यश्च समवायः । द्रव्याणां गुणैः सहयोगोनित्यः । न हि वर्ततेनिर्गुणं द्रव्यम् । सगुणमेव हि द्रव्यमुत्पद्यते ।
For Private And Personal Use Only