________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
४५
शरीरेन्द्रियसत्वात्मसंयोगोधारिजीवितम्। नित्यगश्चानुबन्धश्च पर्यायै रायुरुच्यते ॥
दि कमभिधेयमाप्तरित्या युबै देन सहायुस्तविता. हित मानामानोपदेशवाक्यानामाधाराधेयता सम्बन्ध उको यत्रेति पदेन। हिताहितादिपदं तदुपदेशवाक्यपरमर्थाभिधायकं हि वाक्यं नतु तदथावस्तु वर्तते ग्रन्थे । तत्रादौ लक्षण तस्वायुराह शरीरेत्यादि । शरीरमिहचेष्टेन्द्रियार्थाश्रयः । इन्द्रियस्य पृथगुपादानान्न च चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं तेनहीन्द्रिय लाभे पुनरुक्तवापतिः स्यादस्तु वा वाह्य न्द्रियादि पञ्चमहाभतविकारःसमुदायात्मकं शरीरम्। इन्द्रियन्वाभ्यान्तरं नित्यं श्रोत्रादिकं तेन नेन्द्रियस्य पौनरुतं वृक्षादेरपि वाद्यन्द्रियरहितस्यायुमत्वमाभ्यान्तरेन्द्रियवत्वात् : सत्वं मनः आत्माचेतना धातु तेषां संयोगः शरीरेन्द्रियसत्त्वात्मसंयोग इति स्वरूपलक्षणमायुषः खरूपमुक्त्वा धर्मान्तरोपदेशन लक्षणं वक्त पर्यायानाह धारीत्यादि। सत्वात्म शरीरेन्द्रियाणि परस्परं धावयितुं शीलं यख तत् धारि जीवनं जीवितं फलात्मकं जीवधात्वर्थः नित्यं
For Private And Personal Use Only