SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ चरकसंहिता | अत्र कार्य्यसाधकैकदेशत्वादित्यर्थ स्तेन साध्येन न वैयधिकरण्यम् । एवं क्रमापेचितत्वादित्यत्रापि वक्रमापेक्षितरसादित्वादिति व्याख्येयम् । तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तु क्रियागुणवत् समवायि कारणमिति । तन्नेत्याज्डरन्ये । रसास्तु प्रधानम्। कस्मादागमात् । आगमो हि शास्त्रमुच्यते । शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति तस्मिंश्च प्राणा दूति । ननु भतायत्ता रसा रसायत्तश्चाहार स्मिंश्चेत्प्राणाः सन्ति सन्तु सच द्रव्याधीन एवेति कथं रसस्य प्राघा - न्यभिति चेन्न रसाः प्रधानमुपदेशात् । उपदिश्यन्ते हि रसाः । यथा मधुराग्ललवणा वातं शमयन्ति इति । ननु यथा रसानां वाताद्युपशमकत्वेनोपदेशो ऽस्ति तथा द्रव्याणामपि यथा श्रामलक्यादिरित्येष गणः सर्व्वज्वरापहः। चक्षुष्यो दीपना दृष्यः कफा - रे।चकनाशन इत्यादि इति चेन्न रसाः प्रधानमनुमानात् । रमेन ह्यनुमीयते द्रव्यं यथा मधुरमिति । ननु रसेनानुमीयते द्रव्यं द्रव्येणापि रसना योगेन रमनुभवतीति द्रव्यमेव प्रधानं नतु रसा इति चेन्न रसाः प्रधानम्टपिवचनात्। ऋषिवचनं हि वेदो यथा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy