________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३० ६
चरकसंहिता ।
रोगप्रशमनस्योक्त्या विषमवातादीनामेव दोषसंज्ञाख्यापनात् । तत्र हि पूर्व इति शब्देनात्रोक्तरोगारोग्यपरशरीरदोषवातादि र्न सम्भाव्यते । यदि तत्र पूर्व्व इति शब्देन शरीरं सत्त्वसंज्ञञ्च व्याधीनामाश्रयो मत इत्यत्रोक्तशरीराश्रितो रोग उच्चते तदात्र शारीरमानसव्याधीना मेतदध्यायादिचतुरध्यायैः पृथक् पुनः प्रशमन हेतूपदेशस्येव प्रकोपण हेतृपदेशस्यावश्य कर्त्तव्य त्वापत्तिः स्यात् । तस्मादत्र दोषशब्दः शरीरमनोऽन्यतरदूषके यौगिकवृत्त्या सङ्केतितः कृत इत्येवमनुभूयतेऽन्यत्रापि साम्यावस्थानां वातादीनां शरीरमनोऽन्यतर । दूषकत्वदशायामपि वैषम्यावस्थानां शरी रमनोऽन्यतरदूषणशीलत्वेन देोषसंज्ञानपायान
थक्
-
त्वात् लाघवाञ्च ।
प्रक्कृत्यारम्भकत्वनिवेशेन भवतां
गौरवात् । अन्यथा प्रकृत्यारम्भकत्वेन समवातपित्तकफानामेव मिलितानां प्रत्येकशो व्यभिचारादिति । एष च दोषलक्षणव्याभ्युपदेशः सर्वेषां विशिष्टानां शारीराणां ज्वरादीनां वातादिवैषम्यनिमित्तत्वात् मानसानां कामक्रोधमदमानेर्ष्यादीनां रजस्तमोवैषम्यनिमित्तत्वात् वातादीनां रजस्तमसोश्च वैषम्यप्रशमेनैव प्रशमनख्यापनार्थः सूत्ररूप रोनागन्तुजव्या
For Private And Personal Use Only