________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
भरद्वाजस्य किम्बा प्रजानामथवा सर्वेषामित्याशं. सायामाह। विघ्नभते त्यादि ।
विघ्नभूतायदारोगाःप्रादुर्भूताः शरीरिणाम्। स्तपोपवासाध्ययन ब्रह्मचर्यव्रताजुधाम् ॥ तदाभूतेष्वनुक्रोशं पुरष्कृत्य महर्षयः । समेताः पुण्यकर्माणः पाहिमवतः शुभे॥
तपोपवासादीनां मलजनकानां विघ्नविनाशकत्वेन तज्जुषां प्राणिनां विघ्नभूता रोगानभवितुमर्हन्ति । इत्याशङ्कयाह । तपोपवासेत्या द्यजषामिति ।
विघ्नभूता इत्यत्राभूततद्भावेवि सम्भवति रोगाणासुत्पत्तित एव विघ्नखरूपत्वेनाविघ्नखरूपत्वाभावात् ।
शरीरिणामिति। जीविनां नत्वात्मनां बहुप्राण्यभिप्रायेण बहुवचनोपपत्तावप्यात्मानो हि पुंसां निर्विकारत्वेन नित्यत्वेन च निर्विन्ना इति। तपेति सर्वसन्ता अप्यदन्तान तपशब्द स्तपोऽर्थकछान्दसत्वाहामलोपोनिषिड्वबिधेरनित्यत्वाहा विसर्गलोपेसति न सन्धि निषेधः ।
For Private And Personal Use Only