________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । १५१ दभेदादसदभिन्नो गौ रसदभिन्नोऽग्न इत्यभेदप्रतीला असन गौ रसन्नव इति । अथान विप्रतिपत्तिमिमा दर्शयति । सर्बमभाव इति प्रतिज्ञावाक्ये इत्यादि । सर्बमभाव इति प्रतिज्ञापदं भाववितरेतरापेक्षसिहेरिति हेतुपदमित्य न योः प्रतिज्ञा हेत्वोः पदयोस्तु व्याघातादयुक्तं सर्वमभाव इति वाक्यम् । व्याघातन्तु दर्शयति। अनेकस्येत्यादि । सर्वमभाव इत्यत्र सर्व. शब्दस्यार्थोऽनेकस्याशेषता । प्रभावशब्दस्यार्थस्तु भावप्रतिषेधः। तत्र पूर्व सर्व मिति यदुक्तं तत्मोपाख्यमुपाख्यानसहितम्। उत्तरमभाव इति यदुक्तं तनिरुपाख्यमुपाख्यानरहितम्। सत्वं वस्तुभाष उच्यते तदेव त्वं वस्तु कथमभाव उच्यते । सम्य गुपाख्यायमानं वस्तुरूपेणाख्यायमानं सर्व कथं निरुपाख्य मुपाख्यानरहितमभावः स्यादिति व्याधातः । एवं न जातु कदाचिदपि निरुपाख्योऽभावोऽनेकतयाऽशेषतया च शक्यः प्रतिज्ञातुमिति कुत्रचि देक: स्थाभावोऽथ कुत्तचिदुभयस्य कुत्रचित्त्रयाणामित्येवमादिरूपाहशक्योऽभावो निरवशेषतया प्रतिज्ञातुमिति च व्याघातः । भावो हि सर्वमेव तस्य सर्वस्थ प्रतिषेधे सातिरिक्तं किमस्ति किञ्चिदपि नास्तीति सोतिरिक्तं नास्ति यत्तदवस्तु तस्मादनेकतया नव
For Private And Personal Use Only