________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूरवस्थानम्।
१४१
तानि लक्षणाभावेन प्रतिपद्यते । प्रतिपद्यचानयति प्रतिपत्तिहेतुश्च प्रमाणमिति ॥
भाष्यस्यास्यानुव्याख्यानम्। तस्याभावस्य प्रमेय सियति । कमिति प्रश्नः । तत्रोत्तरम् । लक्षितेष्वि त्यादि। वासः सु वस्त्रेषु खल्व ग्राह्यम् ग्रहणयोग्यलक्षणरहितेषु तल्लक्षणेन लक्षितेषु उपादेयानां ग्राह्याणां वस्त्राणां तल्लक्षणेनाग्राह्यवस्त्रलक्षणेनालचितानामलक्षणेनाग्राह्यवस्वलक्षणभिन्नलक्षणेन खखग्राह्यवस्वलक्षणाभावेनलक्षितत्वात् । तस्याभावस्याग्राह्यवस्वलक्षणाभावरूपस्य ग्राह्यवस्त्रलक्षणस्य ग्राह्याणां वस्त्राणां प्रमेयाणां सिट्विरिति। ततोभयस्य ग्राह्याग्राह्यस्य वस्त्रस्य सन्निधाने सति कश्चित्पुरुषं कश्चित्पुमान् प्रेरयति । अलक्षितानि वासांस्थान येति । अलक्षितानि ग्रह. णयोग्यत्वलक्षणामाववन्ति वस्त्राण्यानयेति । इत्येवं प्रयुक्तः प्रेरितः पुरुषो येषु वासःसु ग्राह्यलक्षणानि न भवन्ति तानि लक्षणाभावेन ग्रामलक्षणेतरखक्षणेन प्रतिपद्यते नेमानि ग्रहणयो. ग्यलक्षणानीति जानीते। ज्ञात्वा तान्यान यति ग्राह्य लक्षणभिन्नलक्षणमभाव एव तद्ग्राह्यवस्त्र प्रतिमक्ति हेतुः प्रमाण मेवेति। कस्यचिद्ग्राह्यं लोहि
For Private And Personal Use Only