________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०
चरकसंहिता।
अस्मादिचेत्यनेन । नन्वतेनाप्यध्यायस्य खवाक्य त्वसंशयः स्यात् तन्निवासार्थमाह। इति हमाह भगवानात्वे य इति ।
ननु यथोवाचात्रेय इत्यनेनैव सिद्दौ सत्यां भगवानिति यदुक्तं तेना यस्यापि तपः प्रभावजनित युक्तज्ञानादिभाग्यवत्त्वं ख्यापितम्। उक्तं हि।
उत्पत्तिञ्च विनाशञ्च भतानामागतिं गतिम् । वेत्तिविद्यामविद्याञ्च स वाच्यो भगवानिति ॥
ननु तदा किं भगवदात्रेयस्य खवाक्य व्याख्यास्यते। सोऽपि यदुवाच तत् किं तस्य स्खीयवाक्य तथात्वञ्चेत् तदा तस्यापि खवाक्यस्य प्रमाणतया खयं वक्तमनुचितत्वं स्यादित्यत आह ।
इति हेति । इति हेतीस्थमात लक्षणे टतीयान्तं पारम्पर्योपदेशेनाहम उवाचेत्यर्थः । द्वितीयान्तं वा उपदेशानेक त्वाद्देदस्य । एतेनाग्निवेशोतवाक्योत्तर तवाक्य स्थानोक्तिनविरुध्यते । पारम्प-पदेशानतिक्रमेण अन्यूनानतिरिक्तत्वेनायुर्वेदमात्रेयोऽग्निवेशायोवाचेति ध्वनितम् । __स च कथं पारम्पर्योपदेशं लभ इत्याकाङ्क्षायां तदात्र योक्तं पारम्पर्योपदेशप्रकार दर्शयति दीर्घ जीवितमित्यादि।
For Private And Personal Use Only