SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९६ Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पूकाव्ये संयनिशीथे सति मे कृपाणी शत्रुश्रियं नेतुमुदारदूती ॥ ९८ ॥ गुणाकरे रणाजिरे मयि स्वनच्छरासने पलायितो वलाधिपो निराकृतो धरापतिः । स गूर्जरोऽपि जर्जरो भयाकरश्च खेचरो धृतव्रणश्च कोङ्कणः क्षणे क्षणे भविष्यति ॥ ५९ ॥ इत्यादितनयवचनेन हस्तस्थमिव राज्यं मन्यमानाया जनन्या रक्षणाय कंचन परिवारं तद्योग्यवस्तुसंचयं च तत्संनिधाववस्थाप्य, कंचन कालं वीतशोकया भवत्यान स्थीयताम्, कतिपयैरेव दिवसेस्त्वामानेतुं नन्दाढ्यं महेष्यामि, इति प्रसवित्रीमाश्वास्याष्टच्छच म वयस्यमण्डलैः सह प्रस्थाय राजपुरोपवनभाजगाम । मित्राणि तत्र विनिवेश्य स वैश्यवेष मादाय राजनगरी प्रविवेश धीरः । रथ्यासु तत्र विचरन्नवरत्नराशि संपूरितां प्रविततां विपाणि जगाहे ॥ ६० ॥ तत्र हयङ्गणे सखीभिः सह कन्दुकविहारमनुभवन्त्याः कस्या चिल्लोलाक्ष्या हेलावशेन भुवि पातितं कन्दुकमा लक्ष्याश्चर्यविलक्ष: कुरुहर्यक्षः प्रासादाग्रावलम्बिनीं नितम्बिनीमुन्नमितवदनो विलोक यामास । तां कोमलाङ्गी कुतुकेन पश्यन्कुरङ्गनेत्रीं कुरुवंशकेतुः । उन्मीलदाभां नवयौवनेन पुन्नागसङ्काशकुचाममुह्यत् ॥ ६१ ॥ एवं तस्याः सौन्दर्यलहरीनिमग्रमानसः कुरुवतंसः कन्दुक मालोक्यैवमुवाच । भाले क्रीडति नीलकुन्तलचये गण्डस्थले कुण्डले वेण्यां पृष्ठतले स्तनद्वयमुखे हारे चकोरीदृशः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy