SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो लम्बः । हस्ताब्जे मृदुले च कन्दुक भवांश्चिक्रीड वल्गन्मणी चञ्चत्कडू-गशमशोभिनि निजस्पर्शारुणश्रीपुषि ॥ ६२ ॥ एपा विम्बाधरी कन्तोः सन्ततं शरवर्षिणः । नामभाक्त्वभितीवाङ्ग कन्तुक त्वामताडयत् ॥ ६३ ॥ वदनकमलोन्मीलत्स्वेदाम्बुशीकरकोरका सुरभिलगलच्छासा नासाग्रचञ्चलमौक्तिका । स्फुरदुरुकुचा रामा वामालकाकुलितानना सरसमतनोत्पाण्याघातं यतस्त्वयि तत्कृती ॥ ६४ ॥ एवं वदन्मुदा स्वामी तत्सौधाग्रवितर्दिकाम् । अलंचकार पण्य श्री कूलंकषगुणाकरः ॥ ६५ ॥ तदानी कोऽपि वैश्येशः संमुखमागत्य संमदपूरविस्तारितनयनः प्रसन्नवदनः कुशलप्रश्नकोरकितवचनः क्रमेण निजप्रस्तावं वितस्तार । श्रीमन्सागरदत्त इत्यभिहितः सोऽहं ममेदं गृहं पत्नी मे कमला सुता च विमला सूत्या किलैपाभवत् । विक्रीयेत यदागमे मणिगणः पूर्वस्थितोऽभ्यन्तरं तं तस्याः पतिमभ्यधुर्जननसल्लने हि कार्तान्तिकाः ॥ ६६ ।। इह खलु भवति प्रविष्टमात्रे पूर्व कदाप्यविक्रीतं बहलरत्नजालं विक्रीतम् । अतो भवतैव प्रपञ्चातिशायिगुणगुम्भितेन पञ्चशरवञ्चनचक्षुरूपेण काञ्चनसच्छायज्ञान्तिकोमलेन मदयिनन्दिनीकन्दलित भाग्यकतावतारेण तस्याः परिणययोग्येन भवितव्यम् । इति तन्निर्ब न्येन, कौरवः कथं कथंचिदनुमेने । शुभे मुहूर्ते विमलां कुमारी जीवंधरः सागरदत्तदत्ताम् । सौदामिनीसंनिभगालपछी जग्राह पाणौ सति हव्यवाहे ॥६७ ।। For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy