________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाध्ये मूर्ती चमत्कृतिमिव स्फुटदिव्यरूपां ___ जायामिवाम्बुजशरस्य चकोरनेत्रीम् । उन्मीलदुज्ज्वलघनस्तनशोभिताङ्गी __रागादिमामनुबभूव कुरुप्रबीरः ॥ ६८ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
विमलालम्भो नामाष्टमो लम्बः ।।
नवमो लम्बः।
ततो लताङ्गीमनुनीय रामां हित्वा स मित्रैः समगच्छतायम् । शशीव पाकारिदिशावधूटी नक्षत्रबृन्दैः कमनीयरूपः ॥ १ ॥ वरचिबमेनमवलोक्य बान्धवा मणिभूषणाञ्चिततर्नु कुरूद्वहम् । बहुमेनिरे मधुमिवाडरस्फुरस्फुटचूतपल्लवकुलं वनप्रियाः ॥ २ ॥ तत्र कोऽपि सहसाब्रवीदिदं बुद्धिवेणविदितो विदूषकः । सप्रहासमतिविस्तृतेक्षणं फुल्लगण्डयुगलं कुरूद्वहम् ।। ३ ।।
अन्यैरुपेक्षितां कन्यां पाणो कृत्य प्रमोदतः । सखे निर्लज्जमात्मानं कृतार्थमिव मन्यसे ॥ ४ ॥ भवाञ्छलाव्यस्तद मित्र व्यूढा चेत्सुरमञ्जरी ।
नरविद्वेषगम्भीरी नवतारुण्यमञ्जरी ॥ ५ ॥ इति तद्वचनभङ्गी निशम्य मन्दस्मितकोरकितवदनः कुरुपञ्चवदनः, श्वएव तामत्रत्यकामकोष्ठमानयिष्यामीति प्रतिज्ञाय, प्रज्ञाग्रेसरस्तत्परिणयोपायं मनसा चिन्तयन्, क्रमेण यक्षमन्त्रमेव तत्ममर्थापनतन्त्रं निश्चिकाय ।
For Private And Personal Use Only