SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाध्ये यस्योदयादनुभवाम्यथ जीवितं च सोऽयं यदीदशकथः कथमद्य वर्ते ॥ ४६ ॥ सत्यंधरस्तव पिता खलशेखरेण | ___ व्यापादितो युधि कृतघ्नवरेण येन । तेनैव पुत्र गमितस्त्रिदिवं यदि त्वं ___हा हन्त सैष कुरुवंशलताकुठारः ॥ ४७ ।। पत्युवियोगो विपिने निवासो राज्यं च नष्टं तनयस्य शोकः । तदद्य दौर्भाग्यहुताशनो मे विनिर्दहेदेव करालवह्निम् ॥ ४८ ॥ स्वप्नो निष्फलतां गतस्त्वयि सुत व्यर्थ वपुलक्षणं __ सत्यार्थ न बभूव पुण्यवपुषस्तदेवताया वचः । हा मर्तृव्यसनाम्बुधिहि सुतरो नैव त्वया पुत्रक • त्वं यद्येवमवेहि मामपि भवल्लोकं प्रति प्रस्थिताम् ॥४९॥ इत्यादिप्रलापवशेन शोकलहरी देवोदन्तं चाम्भोदावलिमिव दम्भोलिममृतं च मुञ्चन्ती पुण्यमातरं बहुधा समाश्वास्य, तन्मुखादुत्पन्नां देवोन्नति नभसो निपतितां रनवृष्टिमिव बहुमन्यमाना वयं, पुनः पुनस्तामाश्वास्याप्टच्छच च श्रीमत्संनिधिमुपागताः, इति" । जीवन्मृतां तां जननीं विदित्वा जीवंधरोऽखिद्यत रक्तचित्तः । मातुर्गुरुस्नेहवशेन सोऽयं द्रष्टुं क्षणात्तामिह तत्वरे च ॥५०॥ तदनु कुरुकुमुदिनीकान्तस्तत्क्षणमेव सकलबन्धून्विशेषतो भार्यामाप्च्छ यानुनीय च, अनुगमनकलितकुतुकनृपतनयनिचयं क्रमेण विसृज्य, सहचरमण्डलमण्डितो दण्डकारण्यमाजगाम | क्षामक्षामतनुं विवर्णवदनां निःश्वासधूमोत्करैश्चिन्तादन्तुरितान्तरामविरलैपिर्मिललोचनाम् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy