SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधर चम्पुकाव्ये गभौरमहाहूदम्, कुत्रचिवलीमुखकरकम्पितमहीरुहशाखानिपतित . पर्णीघसमाघातकुपितसुप्तसमुत्थितशार्दूलधाव्यमानशबरजनसरभसारू ढाभ्रंलिहानोकहचयम् , क्वचित्तरुमूलसुखसुप्तानि तमालस्तोमनिभानि भल्लूककुलानि, क्वचित्तपनकिरणसंतप्तवशां पद्माकरसमीपमानीय निजकरनिर्मूलितबालमृलाणवलयं तदङ्गे निक्षिप्य पयोजरजःसुगन्धिशीतलजलशीकरनिकरांस्तन्मुखे संसिच्य शुण्डादण्डविधृतविशालपद्मपत्रमातपत्रीकुर्वन्तं वशावल्लभम् , कुत्रचित्सावज्ञं लोचनयुगलं क्षणमुन्मील्य पुनः सुषुप्सुं पञ्चवदनसञ्चयम्, सविस्मयमवलोकमानाः, कचन तापसजनसंकुले प्रदेशे प्रविशमानाः, क्रमेण किंचित्तरुमूलमावसन्ती पुण्यमातरं पश्यामः स्म । यस्या मूर्तिमलिनवसनावेष्टिता क्षामभूता __ चन्द्रस्यका कशतमकला ध्वान्तरुद्धेव भाति । वकं शुप्यत्सरसिजनिभं शोकदीना च वाणी ... चिन्तादीर्घ श्वसितमनिशं मूर्ध्नि बद्धा जटा च ॥४०॥ तया मात्रा दृष्ठमात्रेण कुत्रत्या इति पृष्टा एवमुत्तरं वक्तुमुपक्रम्य, " कश्चिन्जीवकविख्यातो विपश्चिद्वन्दशेखरः । ___ अभाद्राजपुरे सोऽयमस्माकं जीवनौषधम् ॥ ४१ ।। __अहं खलु राजश्रेष्ठिनः सुभद्रायां जातः पद्मास्यः, अयं सत्यधरमहाराजसचिवात्सागरदत्तायां जातः श्रीदत्तः, अयं पुनरचलात्तिलोत्तमायां जातो बुद्धिषेणः, एष किल विजयदत्तात्पृथ्वीमत्यां जातो देवदत्तः, इमौ पुनर्जीवन्धरानुजस्य नन्दाव्यस्यानुनी नपुलविपुलौ, इत्यादिक्रमेण सर्वेषां नामधेयान्यभिधाय, तदुत्पत्तिदिने जाता वयं सर्वे महात्मना । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy