________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः । पदसमर्पिततुलाकोटिभिर्वधूटीभिरत्युनतहाङ्गणवातायनदत्तदृष्टिभि. निर्निमेषं विलोक्यमानः क्रमेण राजभवनमाससाद । कुशलानुयोगमथ कौरवः सखी
न्वहुधा विधाय मुदितान्तरः परम् । समशेत सोऽयमयथापुरोदिता
दुपचारकौशलवशाद्विशेषतः ॥३७॥ कदाचिदेकान्ते भृशमपूर्वसंमानसमाहितसंशयडोलायमानमनस्सरोजेन कुरुरानेन चोदिततन्निदानानां सहचराणां तिलकायमानः पद्मवदनः प्रत्युत्तरशैलीमेवमुपादत्त ।
खामिस्त्वदीयविरहानलदग्धदेहाः
श्रीमद्भविष्यदवलोकनपुण्यपाकैः । आश्वासिताश्च दयया द्रुतदत्तहस्ता
देव्या बभूविम वयं हयपाणिवेषाः ॥ ३८ ॥ तदनु निखिलमाश्वीयं पुरोधाय पुरान्निर्याय पर्यायेणा'तिलवितबहुदूरावानः पत्रिकुलनिध्वाननिरुद्धदिशावकाशामरण्यानी प्रविश्याघ्रंलिहतरुपण्डमण्डितदण्डकारण्यभागपरिकल्पितपटसदननिकटतटेषु घोटपटलं विधाय विश्रान्तिसुखमनुभवामः स्म । तत्र च ।
सौधावलीमतिशयालुभिरुन्नतैस्तैः
शुभैः पटायतगृहैः कलितं निवासम् । नूनं भवद्विरहकातरतत्पुरश्री
रस्माभिरागतवतीति वयं स्म विद्मः ॥ ३९ ॥ तदन्वत्यद्भुतसंनिवेशं दण्डकारण्यप्रदेशमवलोकितुकामा वयम्, तत्र तत्र विहृत्य, क्वचन विजृम्भितकुम्भीन्द्रकुम्भस्थलमुक्तमुक्ताकुलसिकतिलं वनविहरणश्रान्तनिमज्जत्पुलिन्दसुन्दरीवदनाम्भोजपरिष्कृतं
For Private And Personal Use Only