SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमो लम्बः । आयं त्वं च नवाङ्गनासुखवशाहिस्मृत्य मां मोदसे ___ जातीपल्लवकोमला कथमियं जीवेत्तव प्रेयसी ॥२१॥ स्वामिन्नङ्कुरिती ममोरसि कुचौ वृद्धि गौ तावके वाचस्तावकवाग्रसैः परिचिता मौग्ध्येन संत्याजिताः । बाहू मातृगलस्थलादपसृती त्वत्कण्ठदेशेऽर्पिता वार्य प्रेमपयोनिधे स्थितमिदं विज्ञापितं किं पुनः ॥२२॥ इति प्रियाया अन्यापदेशलिखनपरिपाटी मनसा चिन्तयन्प्रियाशोकविदीर्णशरीरः कुरुकुमारो, मुहुर्मुहुर्जननीजनवयस्यसतीजनकुशलानुयोगमत्यादरेण विस्तार्य, सगर्भसंगमतुङ्गतमतोषेण सुखमासामास । समया कुरुकुअरं निविष्टं कनकादि निकषेव शीतरश्मिम् । अनुनं मनुनाधिपात्मनास्ते कुशलप्रभपुरःसरं परीयुः ॥ २३ ॥ एवं सोदरसमागमसंतुष्टस्वान्तं कुरुकुमुदिनीकान्तमुपतिष्ठमानेषु राजतनूजेषु, कदाचित्सरभसधावनजनितोनिश्वासनिरन्तरनिःसरणदत्तार्धसाहाय्यकभरकम्पिततनुदण्डाः प्रचण्डवातचलितबालपादपसरूपाः, अन्तरमेयतया बहिःप्रसृतैरिव भयानकरसपूरैः खेदसलिलैदैन्यसाम्राज्येऽभिषिक्ता इव गोपाः, रानमन्दिराजिरे आर्ततरमेवं चुक्रुशुः । हेलानाटकघोटकव्रजखुरप्राघुटनोद्यद्रनो राज्या रासभधूम्रया कबलिताकाशावकाशैः परैः । राजस्तावकगोधनं निखिलमप्याहृत्य नीतं स्वतां किंचोदश्चितशिञ्जिनीपटुरवैर्दोषोऽपि संक्षोभितः ॥२४॥ उद्यत्प्रतापपटलेन सहस्त्ररश्मे \मण्डलं तव च भूमिपतेर्निरुद्दच । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy