SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ जीवंधरचम्पुकाव्ये न्तिम्, वल्गत्कुचनितमरालगमनकेलीपरवशतया मन्दानिलान्दोलितगुलुच्छयुगली जङ्गमकनकलतां तुलयन्तीम्, संमुखासीनमप्यात्मानं सकलमनुजनयनसरोजकुदलीकरणचणेन तेनःप्रसरणेन परीतं द्रष्टुमक्षमतया नलिनान्तिकोल्लासितपल्लवतल्लजभ्रमकारिणा नयनोपरिभागचारुणा पाणिना मुखं व्यवधाय पश्यन्तीम्, प्रान्तमावसन्ती जीवंधरः कांचिदायताक्षीमप्राक्षीत् । किं वक्तुकामासि कुरङ्गनेत्रि किमागता कोमलबन्धगात्रि । स्मितावदाता तव वक्रलक्ष्मीः संसूचयत्यादरतो विवक्षाम् ॥ २ ॥ इति दृष्टा चकोराक्षी मधुरां गिरमाददे । अब्जिनी भृङ्गमुखरा मकरन्दझरीमिव ॥ ३ ॥ अत्र चायुधगृहेऽपि चैकदा त्वां निरीक्ष्य परिमण्डितं श्रिया । चित्रिते रमति चित्तमन्दिरे संमदो मम विवक्षया सह ॥ ४ ॥ इत्यादिवचनरचनां चन्द्रकलामिव कान्ताजनकटासलीलामिवेक्षु चापकोदण्डयष्टिमिव च वक्रमधुरामाकर्ण्य विस्मितान्तरङ्गः कुरुशशाङ्कः, किमिदमश्रुतदृष्टपूर्वमिति चिन्तयन् क्रमेण नन्दाव्यः समागतः किमित्यूहाञ्चक्रे । वपुषा पथमं विवेश शालां मनसा चैव ततः कुरूद्वहः । कुतुकप्रसरे हि निनिरोधे क्रमभावो न च तत्र लक्ष्यते ॥ ५ ॥ अवलोक्याग्रजन्मानं नन्दाढ्यो मन्दविस्मयः । प्रमोदभारगुरुणा वपुषा प्रणनाम सः ॥ ६ ॥ विकसत्कुसुमाञ्चितेन मूर्धा क्षितिभागं स न यावदस्टशत् । रभसेन कुरूद्धहेन तावन्जगृहे कोमलबाहुयष्टिना ॥ ७ ॥ कुरुवीरवक्षसि कवाटविस्तृते न ममौ वपुः प्रमदभारमांसलम् । अनुजस्य तत्तदपि बाहुवल्लरीयुगलेन दैर्घ्यगुरुणाभिषस्वजे ॥ ८॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy