SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३ अष्टमो लम्बः । नृपात्मजानां निचयस्ततो नु कोदण्डविद्याकुशलत्वमाप । तत्कीर्तिकल्लोलपरंपरा च जगत्रयं मोदरसं महीशः ॥ ५६ ॥ विद्यावैदग्ध्यपीठीमधिवसति निजे नन्दनानां समाजे दृष्टिं हेमासनस्थे कुरुकुलतपने प्रीतिमन्तश्च चिन्ताम् । किं कुर्यामस्य वीरव्रजमहितकलादानमान्योपकार श्लाध्यस्येति क्षितीशश्चिरतरमतनोडीमतामग्रगण्यः ॥ १७ ॥ तदनु कन्याविश्राणनं करणीयं गणयता नरपालमणिना प्रार्थितं परिणयं वरुणालयगभीरः करुणाकरो जीवंधरः क्रमेणाङ्गीचकार । नरपतिपरिदत्तां यौवनारम्भमत्तां सपदि कनकमालां वक्षसि श्लिष्टमालाम् । सकलगुणवरिष्ठां सन्मुहूर्ते वरिष्ठे कुरुपतिरुपयेमे मण्डपे तत्र हैमे ॥ १८ ॥ ... इति श्रीमहाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे कनकमालालम्भो नाम सप्तमो लम्बः । अष्टमो लम्बः । नीलालकां तामुपयम्य रामां कुरूद्वहः सौख्यपयोधिमनः । स्यालेषु वात्सल्यवशेन तत्र चिरं न्यवात्सीद्रमयन्मृगाक्षीम् ॥ १ ॥ अथ कदाचिन्मन्दस्मितमकरन्दोद्गारिवदनारविन्दा विस्मयवशप्रमुषितनिमेषनयननीलोत्पलतया सालकाननाच्छोणाधरपल्लवसौरभ्यसमाकृष्टौ नासाचम्पकदर्शनेन तत्रैव निश्चलतामुपगतौ भृङ्गाविति संभावनां संपादयन्तीम्, मरकतवलयप्रभाबहलीकृतरोमराजिलताका For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy