SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्तसमो लम्बः । मित्र इति प्रतीतभूपः पुरमेनां परिपालयत्यजत्रम् | नलिना नलिना मलायताक्षी महिषी तस्य महीललामवल्ली ॥ ४६ ॥ तयोः सुताः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्वे नद्या हीना इवाद्रयः ॥ ४७ ॥ अतः कोदण्डविद्याकुशलं नरशार्दूलमन्वेषमाणोऽस्मत्तातपादः, ८१ पराक्रमापहृतसामन्तसीमन्तिनीनयनकज्जलकालिकाशङ्कावदान्य मौर्वीकिणश्यामिकालंकृतभुजदण्डस्य श्रीमतः संदर्शनेन, कलापीव वलाहकदर्शनेन, नदीपतिरिव निशाकरदर्शनेन, वनोत्कर इव वसन्तदर्शनेन, कमलाकर इव कमलबन्धुदर्शनेन, प्रमोद सर्वस्वमनुभविष्यति । तस्मादस्मत्पितुर्वाञ्छावलीं संप्रति पुष्पिताम् । सभास्तारदृशश्चापि सफलीकुरु कोविद ॥ ४८ ॥ स तस्य विनयोज्ज्वलां वचनबन्धशैलीं श्रुतौ मनस्यनुमति धरापतिनिरीक्षणाय क्षणात् । रथे च चरणाम्बुजं नृपसुतैः पुरः स्थापिते कार युगपद्दयाजलनिधिः कुरूणां पतिः ॥ ४९ ॥ तदनु प्रत्येकमधिष्ठितस्यन्दनैर्नृपनन्दनैः परिवृतशताङ्गः कुरुकुलशशाङ्कः पुरद्वारं प्रविश्य प्रासादवातायनदत्तनयनैर्विलासिनीजनैः सम्टहमालोक्यमानः क्रमेण नरपतिभवनद्वारि रथादवतीर्य तैः पुरस्कृतो दौवारिकजनदीयमानमार्गः क्षितिपतिसंसदमाससाद । भूपोऽपि नन्दनगिरा वपुषा च तस्य माहात्म्य संपदमवेत्य चकार वीरम् । तं रत्नपीठशिखरे तदुपान्तभूमौ पुत्रांस्तदाननविधौ निजककोरम् ॥ ५० ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy