SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ जीपंधरचम्पुकाध्ये निजोदन्तमित्थं प्रकटयामास । अनङ्गतिलकाहया खचरकन्यकाहं विभो __वनान्तमिदमापिता गगनचारिणा केनचित् । अनेन निजनायिकाभयवशेन निःसारिता दयाविसरवारिधे महित रक्षणीया त्वया ॥ ३१ ॥ अशरण्यशरण्यत्वं परोपकृतिशीलता । दयापरत्वं दाक्षिण्यं श्रीमतः सहना गुणाः ॥ ३२ ॥ "तवता, हा प्रिये हा प्राणकान्ते क्कासि क्कासि, वियोगवेदना विषमिव विसर्पति, पावक इवाङ्गानि निर्दहति, मृत्युरिव प्राणान्निःसारयति, मोह इव विद्यां विलुम्पति, रुकच इव मर्माणि कन्तति" इत्यादि कस्यचिदातखरं निशम्य विद्याधरविशालनयनायां मिषेणान्तहितायां, विस्मयविस्तृताक्षं कुरुहर्यक्षं सोऽपि विद्याधरः समीपमागत्य सगद्गदमेवमुवाच । सतीमुदन्याकुलितान्तरङ्गामत्रैव संस्थाप्य जलाशयाय । गतोऽहमागत्य सरोरुहाक्षी नाद्राक्षमद्य प्रतिकूलदिष्टात् ॥३३॥ नरोत्तम तया सार्धं विद्यापि मम निर्गता । मनोवृत्तिश्च तत्कर्तु चिन्तापि न हि शक्यते ॥ ३४ ॥ इति कर्तव्यतामूढं मामुद्दिश्य नरोत्तम । प्रज्ञानामग्रगण्यस्त्वं ब्रूहि कर्तव्यमत्र वै ॥ ३५ ॥ इत्यादिविद्याधरदैन्यदन्तुरितवचनरचनामाकर्ण्य पारावारगभीरः कुरुवीरो मन्दस्मितरुचिलहरीकपटेन सुधाधारां किरन्निव गम्भीरवचनगुम्भं विजृम्भयामास । धैर्योदार्यविवर्जितः क्षितिपतिः प्रज्ञाविहीनो गुरुः कृत्याकृत्यविचारशून्यसचिवः संग्रामभीरुभटः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy